अभाषितपुंस्काच्च

7-3-48 अभाषितपुंस्कात् च अतः इत् उदीचाम् अतः स्थाने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अभाषितपुंस्काद् विहितस्यातः स्थाने योऽकारस्तस्योदीचामाचार्याणां मतेनेकारादेशो न भवति। खट्वका, खट्विका। अखट्वका, अखट्विका। परमखट्वका, परमखट्विका। बहुव्रीहौ यदा कपि ह्रस्वः क्रियते, तदा भवितव्यमनेन विधिना। अत्राप्यभाषितपुंस्काद् विहितस्यातः स्थाने भवत्यकार इति। यदा तु अविद्यमाना खट्वा अस्या अखट्वा, अल्पा अखट्वा अखट्विकेति, तदा न भवति। तथातिक्रान्ता खट्वाम् अति खट्वा, अल्पा अतिखट्वा अतिखट्विका॥

Siddhanta Kaumudi

Up

एतस्माद्विहितस्यातः स्थानेऽत इद्वा स्यात् । गङ्गका । गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता अखट्वा अखट्विका । शैषिके कपि तु विकल्प एव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अभाषितपुंस्काच्च>> - अभाषितपुंस्काच्च । 'उदीचामातः स्थाने' इत्यनुवर्तते, अत इदिति च । अभाषितः पुमान्येनेति विग्रहः । विहितस्येत्यध्याहार्यम् । तदाह — एतस्मादिति । अभाषितपुंस्कादित्यर्थः । अयकपूर्वार्थं वचनम् । गङ्गका । गङ्गिकेति । गङ्गाशब्दात्कः । 'केऽणः' इति ह्रस्वः, इत्त्वविकल्पः । विहितविशेषणस्य फलमाह — बहुव्रीहिरिति । अविद्यमाना खट्वा यस्या इति विग्रहेनञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः॑ इति बहुव्रीहौ कृते, विद्यमानपदलोपे, नञो नलोपे 'शेषाद्विभाषा' इति कबभावपक्षे, 'गोस्त्रियोः' इति ह्रस्वे, अखट्वशब्दाट्टापि, सुपि अज्ञातादौ के, सुब्लुकि, 'केऽणः' इति ह्रस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतः स्थाने अतोऽभावान्नेत्त्वविकल्पः । किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमित्यर्थः ।अभाषितपुंस्कात्परस्ये॑ति व्याख्याने तु तादृशखट्वशब्दात्परस्य आतः स्थाने अतः सत्त्वादित्त्वविकल्पः स्यादिति भावः । शैषिके कपि त्विति । न स् खट्वा स् इत्यवस्थायां कपि सुब्लुक् । प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात्नञोऽस्त्यर्थाना॑मिति बहुव्रीहिसमासः । 'समासान्त' इत्यन्वर्थसंज्ञाबलात्कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्रातिपदिकत्वाऽभावात् 'गोस्त्रियोः' इति ह्रस्वो न भवति । नापि 'केऽणः' इति ह्रस्वः,न कपी॑ति निषेधात् । किंतुआपोऽन्यतरस्या॑मिति ह्रस्वविकल्पः । तत्र खट्वाशब्दाद्विहितस्य कपः प्राग्वर्तिनष्टापोऽभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्रस्वाकारस्यायमित्त्वविकल्पो भवत्येवेत्यर्थः ।आपोऽन्यतरस्या॑मिति ह्रस्वाऽभावपक्षे तु अखट्लाकेत्येव बोध्यम् ।

Padamanjari

Up

अभाषितपुंस्कादिति विहितविशेषणमित्याह - अभाषितपुंस्काद्विहितस्येति । खट्वाशब्दः स्त्रियामेव नियत इत्यभाषितपुंस्कः, बहुव्रीहेरभिधेयलिङ्गत्वादभाषितपुंस्कत्वाभावादनेन विकल्पेन न भवितव्यमिति मन्यमानं प्रत्याह - बहुव्रीहाविति । कथं भवतीत्यत आह - तत्रापीति । इतिकरणो हेतौ । यदा त्विति । कबभावपक्ष एतत् । अखट्वा इति स्थिते उपसर्जनह्रस्वत्वम्, टाप्, पुनः'के' णःऽ इति ह्रस्वः । स च समासाद्भाषितपुंसकादुत्पन्नस्य टाप इति न भवत्ययं विकल्पः । ठभाषितपुंस्कात्परस्यातःऽ इति विज्ञायमाने स्यादेवात्र विकल्पः । अतिखट्विकेति । अत्रापि समासाद्भाषितपुंस्काट्टाबुत्पन्नः ॥