7-3-41 स्फायः वः णौ
index: 7.3.41 sutra: स्फायो वः
स्फायित्येतस्य अङ्गस्य वकारादेशो भवति णौ परतः। स्फावयति।
index: 7.3.41 sutra: स्फायो वः
णौ । स्फावयति ॥
index: 7.3.41 sutra: स्फायो वः
स्फायो वः - स्फायो वः । णाविति शेषपूरणम् ।अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः ।