लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने

7-3-39 लीलोः नुग्लुकौ अन्यतरस्यां स्नेहविपातने णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ली ला इत्येतयोरङ्गयोरन्यतरस्यां नुक् लुक् इत्येतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे। घृतं विलीनयति, घृतं विलाययति। विलालयति, विलापयति। ली ई इतीकारः प्रश्लिष्यते, तत ईकारान्तस्यैव नुग् भवति, न तु कृतात्वस्य <<विभाषा लीयतेः>> ६.१.५१ इति। स्नेहविपातन इति किम्? जतु विलापयति। जटाभिरालापयते। ली इति लीलीङोर्ग्रहणम्। ला इति लातेः, कृतात्वस्य च लीयतेः॥

Siddhanta Kaumudi

Up

लीयतेर्लातेश्च क्रमान्नुग्लुकावगमौ वा स्तो णौ स्नेहद्रवे । विलीनयति । विलाययति । विलालयति । विलापयति वा घृतम् । ली ई इति ईकारप्रश्लेषादात्वपक्षे नुक् न । स्नेहद्रवे किम् । लोहं विलापयति । विलाययति ।<!प्रलम्भनाभिभवपूजासु लियो नित्यमात्वमशिति वाच्यम् !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने>> - लीलोः । ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति । अर्तिह्यी॑त्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य = तैलस्य, निपातनं = द्रावणं, स्नेहनिपातनम् । तदाह — स्नेहद्रवे इति । आत्त्वाऽभावपक्षे आह — विलीनयतीति । लीलीङोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीङोरात्त्वनुगभावपक्षे आह — विलाययतीति । लुगागमाऽभावे रूपम् । नु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक्स्यादित्यत आह — ली ई इति । लोहं विलापयतीति । नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्वाऽभावे तु वृद्ध्यायादेशाविति नित्यमात्त्वं वक्तव्यमित्यर्थः ।

Padamanjari

Up

स्नेहःउ घृतादिः, तस्य विपातनमुविगच्छतः काठिन्यं त्यजतः प्रयोजनकव्यापारः । स्नेहविपातनं काठिन्यमुपगतस्याग्नौ निष्टपनादिना द्रवत्वापादानमित्यर्थः । न तु कृतात्वस्येति । एकदेशविकृतस्यानन्यत्वात् प्रसङ्गः । जटाभिरालापयत इति ।'लियः सम्माननशालीनीकरणयोश्च' इत्यात्मनेपदम् । ली इति लीलीङेर्ग्रहणमिति । क्रैयादिकदैवादिकयोः । निरनुबन्धकपरि भाषा तु नेष्यते । कृतात्वस्य च लीयतेरिति । ग्रहणमित्यपेक्ष्यते ॥