वो विधूनने जुक्

7-3-38 वः विधूनने जुक् णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वा इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः। पक्षेणोपवाजयति। विधूनन इति किम्? आवापयति केशान्। <<पै ओवै शोषणे>> इत्येतस्यैतद् रूपम्॥

Siddhanta Kaumudi

Up

वातेर्जुक्स्याण्णौ कम्पार्थे । वाजयति । कम्पे किम् । केशान्वापयति । विभाषा लीयतेः <{SK2509}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वो विधूनने जुक्>> - वो विधूनने । 'ओ वै शोषणे' इति धातोः कृतात्त्वस्य 'व' इति षष्ठन्तम् । 'अर्तह्यी' त्यतो णावित्यनुवर्तते । तदाह — वातेरित्यादि । पुकोऽपवादो जुक् ।केशान्वापयतीति । सुगन्धीकरोतीत्यर्थः । अत्र वैधातोः पुगेव । वाधातोस्त्विह न ग्रहणं, लुगविकरणत्वात् । केचित्तु वातेरेवाऽत्र ग्रहणं, न तु वेञो, नापि वै इत्यस्य, लाक्षणिकत्वात्, सानुबन्धकत्वाच्चेत्याहुः । आत्त्वविधायकसूत्रं स्मारयति - विभाषा लीयतेरिति । लीलीङोरात्त्वं वा स्यादेज्वि,ये ल्यि चेति व्याख्यातं प्राक् श्यन्विकरणे । तत्र लीयतेरिति यका निर्देशो, नतु श्यना । तेन 'ली श्लेषणे' इति श्नाविकरणस्य, 'लीङ्श्लेषणे' इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्तं न विस्मर्तव्यम् ।

Padamanjari

Up

'विधूनने' इत्ययमेव निर्देशो लिङ्गम् - धूञो णौ नुग्भवतीति । वा इत्येतस्येति ।'वा गतिगन्धनयोः' इत्यस्य ।'वज व्रज गतौ' इत्यस्य णिचि रूपे वाजयतीति सिद्धे, वातेः पुग्निवृत्यर्थं जुको विधानम् ॥