शाच्छासाह्वाव्यावेपां युक्

7-3-37 शाच्छासाह्वाव्यावेपां युक् णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शा छा सा ह्वा व्या वे पा इत्येतेषामङ्गानां युगागमो भवति णौ परतः। शा — निशाययति। छा — अवच्छाययति। सा — अवसाययति। ह्वा — ह्वाययति। व्या — संव्याययति। वे — वाययति। पा — पाययति। पाग्रहणे <<पै ओवै शोषणे>> इत्यस्यापीह ग्रहणमिच्छन्ति। <<पा रक्षणे>> इत्यस्य लुग्विकरणत्वाद् न भवति॥ लुगागमस्तु तस्य वक्तव्यः॥ पालयति॥ धूञ्प्रीञोर्नुग् वक्तव्यः॥ धूनयति। प्रीणयति। एतेऽपि पूर्वान्ता एव क्रियन्ते। तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणद् इत्युपधाह्रस्वत्वं भवति। शाच्छासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम्। किमेतस्याख्याने प्रयोजनम्? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा नास्तीत्युपदिश्यते। तेनाध्यापयति जापयतीत्येवमादि सिद्धं भवति॥

Siddhanta Kaumudi

Up

णौ परे । पुकोऽपवादः । शाययति । ह्वाययति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शाच्छासाह्वाव्यावेपां युक्>> - शाच्छासा ।शो तनूकरणे,छो छेदने॑,षो अन्तकर्मणिट,ह्वेञ् स्पर्धायां शब्दे च॑,व्येञ् संवरणे॑, एषां कृतात्त्वनिर्देशः । 'वेञ् तन्तुसंताने'पा पाने भ्वादिः । एषां द्वन्द्वात्षष्ठीबहुवचनात् । णौ परे इति । शे,फूरणमिदम् । आदन्तलक्षणपुकोऽपवादः । युकि ककार इत् । उकार उच्चारणार्थः । कित्त्वादन्तागमः । अत्रलुग्विकरणाऽलुग्विकरणयोरलुग्विकरणस्य ग्रहण॑मिति वचनात् 'पा रक्षणे' इति न गृह्रते । तस्यतु पालयतीति रूपमनुपदमेव वक्ष्यति । शाययतीति । लुङि अशीशयत् । छाययतीति । अचिच्छयत् । साययतीति । असीषयत् । ह्वाययतीति । लुङि तु विशेषो वक्ष्यते । व्याययतीति । अविव्ययत् । वाययति । अवीवयत् । पाययति । लुङि तु विशेषो वक्ष्यते ।

Padamanjari

Up

पाग्रहणे इत्यादि । इष्टिरेवेयम्; लाक्षणिकत्वात् पारूपस्य । लुगागमस्त्विति । यद्यपि पालयतीति रूपम्'पाल रक्षणे' इत्यस्यैव चुरादिणिजन्तस्य पुनर्हेतुमण्णिचि सिद्धम्, तथापि पातेः पुकि पापयति, युकि तु पाययतीति मा भूदिति लुग्वचनम् । धूञ्प्रीञोरिति ।'धूञ् कम्पने' ,'प्रीञ् तर्पणे' , ञान्तस्यानुकरणम्; तेन न दैवादिकस्य नुग्भवति । एतेऽपीति । एते युगादयः, वक्ष्यमाणाश्च जुगादयः । कृतात्वानां ग्रहणमिति । आकारान्तानां युकं विधाय तदनन्तरमाकारान्तेषु गृह्यमाणेषु युकः प्राप्तिराख्याता भवतीति भावः । एवमादीति । आदिशब्देन - क्रापयति, निजापयति, विलापयते, मुण्डो विस्मापयते, प्रियमाचष्टे प्रापयतीत्यादेर्ग्रहणम् ॥