तत्प्रत्ययस्य च

7-3-29 तत्प्रत्ययस्य च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वस्य तु वा प्रवाहणस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ढक्प्रत्ययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वस्य तु वा। प्रवाहणेयस्यापत्यं प्रावाहणेयिः, प्रवाहणेयिः। प्रावाहणेयकम्, प्रवाहणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुमशक्येति सूत्रारम्भः॥

Siddhanta Kaumudi

Up

ढान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । प्रवाहणेयस्यापत्यं प्रवाहणेयिः । प्रवाहणेयिः । बाह्यतद्धितनिमित्ता वृद्धिर्ढाश्रयेण विकल्पेन बाधितुं न शक्यत इति सूत्रारम्भः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रवाहणेयिरिति । यून्यपत्ये ठत इञ्ऽ । प्रवाहणेयकमिति ।'गोत्रचरणाद् वुञ्' । किमर्थमिदमुच्यते ? ढेअ परतः पूर्वेण विकल्प उक्तः, ठान्तस्येञादौ नित्यवृद्धिर्मा भूदिति । वैतदस्ति प्रयोजनम्, इञादिनिमिताया अपि वृद्धेर्ढाश्रय एव विकल्पो बाधको भविष्यति,'ढेअ' इति हि परसप्तमी, न निमितसप्तमी, तेना न्यनिमिताया अपि वृद्धेर्ढेअ परतः प्रतिषेधो लभ्यत एव ? अत आह - ब्राह्यतद्धितनिमितेति । अयमभिपायः - ढेअ उत्पन्ने तदाश्रयां वृद्धिं बाधित्वा विकल्पस्तावत्प्रवृतः, पश्चादिञादिरुत्पन्नः, तन्निमिता च वृद्धिः प्राप्ता, न त्विदानीं डनिमितो विकल्पः, पूर्वमेव प्रवृतत्वात्, आवृत्ययोगादिति ॥