केकयमित्त्रयुप्रलयानां यादेरियः

7-3-2 केकयमित्रयुप्रलयानां यादेः इयः वृद्धिः अचः ञ्णिति तद्धितेषु आदेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

केकय मित्रयु प्रलय इत्येतेषां यकारादेरिय इत्ययमादेशो भवति तद्धिते ञिति णिति किति च परतः। केकयस्यापत्यं कैकेयः। <<जनपदशब्दात् क्षत्रियादञ्>> ४.१.१६८ इत्यञ्प्रत्ययः। मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते। <<गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु>> ५.१.१३४ इति वुञ्। लौकिकं हि तत्र गोत्रं गृह्यते। लोके च ऋषिशब्दो गोत्रमित्यभिधीयते। प्रलय — प्रलयादागतं प्रालेयमुदकम्॥

Siddhanta Kaumudi

Up

एषां यकारादेरियादेशः स्यात् । ञिति णिति किति च तद्धिते परे । इति यादेशे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<केकयमित्त्रयुप्रलयानां यादेरियः>> - केकयमित्रयु ।तद्धितेष्वचामादे॑रित्यतस्तद्दितग्रहणमनुवर्तते । 'अचो ञ्णिति'किति चे॑त्यतो ञ्णितीति, कितीति च । तदाह — एषामिति । आदेशे यकारादकार उच्चारणार्थः । केकयस्यापत्यं स्त्री कैकेयी । 'जनपदशब्दात्' इत्यञ् । मैत्रेयिकया श्लाघते । मित्रयोर्भाव इत्यर्थेगोत्रचरणा॑दिति वुञ् । प्रलयादागतं प्रालेयम् । ण् । अत्र सर्वत्र यादेरियादेश इत्युदाहरणानि । प्राप्ते इति । मित्रयोरपत्ये ढञि एयादेशे मित्रयु-एय इति स्थिते ओर्गुणं बाधित्वा यु इत्यस्य इयादेशे सति आद्गुणे मैत्रेयेय इति प्राप्ते सतीत्यर्थः ।

Padamanjari

Up

लौकिकं हि तत्र गोत्रं गृह्यत इति । मित्रयु शब्दोऽभेधोपचारातदपत्यसन्ताने यदा वर्तते न परं प्रकृतावेव, तदेदमुच्यते । यदा तु गृष्ट।लदिभ्यष्ठञो यस्कादित्वाद् बहुषु लुक् क्रियते, तदा पारिभाषिकेऽपि गोत्रे न दोषः । अत्र यद्यपि वृद्धिप्रसङ्गेऽयमादेश उच्यते, तथापि वृद्धिर्न बाध्यते; विषयभेदात् - अचामादेर्वृद्धिः, यादेरियादेशः, अङ्गं तूभयोविशेषणम्, न कार्यि ॥