प्रवाहणस्य ढे

7-3-28 प्रवाहणस्य ढे वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वस्य तु वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रवाहणस्य ढे परत उत्तरपदस्याचामादेरचो वृद्धिर्भवति, पूर्वपदस्य वा भवति। प्रवाहणस्यापत्यं प्रावाहणेयः, प्रवाहणेयः। <<शुभ्रादिभ्यश्च>> ४.१.१२३ इति ढक् प्रत्ययः॥

Siddhanta Kaumudi

Up

प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वापदस्य तु वा ढे परे । प्रवाहणस्यापत्यं प्रावाहणेयः-प्रवाहणेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रवाहणस्य ढे>> - प्रवाहणस्य । उत्तरपदस्येत्यधिकृतम् ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरित्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति,अर्धात्परिमाणस्य पूर्वस्य तु वे॑त्यतः पूर्वस्य वेतिच । तदाह — प्रवाहणशब्दस्येति । प्रावाहणेयः प्रवाहणेनय इति । शुभ्रादित्वाड्ढकि पूर्वपदस्य पाक्षिकी आदिवृद्धिः । उत्तरपदस्य नित्यम् । उत्तरपदे आकारस्य वृद्धेः फलं तु 'प्रवाहणेयीभार्य' इत्यत्रवृद्धिनिमित्तस्य चे॑ति पुंवत्त्वप्रतिषेध एव ।

Padamanjari

Up