नातः परस्य

7-3-27 न अतः परस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य अर्धात् परिमाणस्य पूर्वस्य तु वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अर्धात् परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति णिति किति च परतः। अर्धप्रस्थिकः, आर्धप्रस्थिकः। अर्धकंसिकः, आर्धकंसिकः। अत इति किम्? आर्धकौडविकः। तपरकरणं किम्? इह मा भूत् — अर्धखार्यां भवा अर्धखारी। किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः। <<वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे>> ६.३.३९ इति पुंवद्भावप्रतिषेधो न स्यात्। यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवतीति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्य इति॥

Siddhanta Kaumudi

Up

अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न पूर्वपदस्य तु वा ञिदादौ । आर्धप्रस्थिकम् । अर्धप्रस्थिकम् । अतः किम् । आर्धकौडबिकम् । तपरः किम् । अर्धखार्यां भवा अर्धखारी । आर्धखारीभार्य इत्यत्र वृद्धिनिमित्तस्य- <{SK840}> इति पुंवद्भावनिषेधो न स्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नातः परस्य>> - नातः परस्य । परिमाणाऽकारस्येति । परिमाणवाचकावयवस्य अकारस्येत्यर्थः । पूर्वपदस्य तु वेति । पूर्वपदस्यादेरचस्तु वृद्धिर्वेत्यर्थः । आर्धकौडविकमिति । अर्धकुडबेन क्रीतमित्यर्थः ।तेन क्रीत॑मिति ठञ् । अत्र कुडवशब्दस्य परिमाणविशेषवाचिन आदेरचोरकारत्वाऽभावान्न वृद्धिनिषेधः । किन्तुअर्धात्परिमाणस्य॑त्युत्तरपदवृद्धिरिति भावः । तपरः किमिति । दीर्घस्याकारस्य वृद्धिनिषेधे फलाऽभावाद्ध्रस्वस्येति सिद्धमिति प्रश्नः । अर्धखारीति । निषेधो न स्यादिति । पूर्वपदस्य वृद्ध्यभावपक्षे वृदिंध प्रति फलोपहितनिमित्तत्वाऽभावादिति भावः । पूर्वपदस्य वृद्धिपक्षे तु वृदिंध प्रति फलोपहितनिमित्तत्वसत्त्वात् स्यादेव उत्तरपदाकारस्य वृद्धिनिषेधेऽपि पुंवत्त्वनिषेधः । परिमाणान्तस्येत्यारभ्या एतदन्तं साप्तमिकम् । अथ प्रकृतं पाञ्चमिकम् ।

Padamanjari

Up

आर्धप्रस्थिकम्, आर्धकंसिकमिति । पूर्ववट्ठञ् । कंसाट्टिठÄस्तु न भवति; तदन्तविधेरभावात् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिः, न वार्धशब्दः संख्यावाची । किं च स्यादिति । आकारो वृद्धिरेव, तत्र सत्यसति वा वृद्धिप्रतिषेधे नास्ति विशेष इति मन्यते । किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात् ? इत्यत आह - यत्र हीति । तदुक्तम् -'कुर्वद्रूपे निमितशब्दो मुख्यः' इति । परस्येति किम् ? पूर्वस्य मा भूत्, अत इति विशेषणोपादानसाममर्थ्यात्पूर्वस्य न भविष्यति, न हि पूर्वस्याधशब्दस्याकारादन्यो वृद्धिभागस्ति । किञ्च - यदि पूर्वस्य प्रतिषेधः स्यात्,'पूर्वस्य तु वा' इत्येतदनर्थकं स्यात् । इदं तर्हि प्रयोजनम् - तदन्तविधिर्मा भूदिति, अन्यथाऽकारान्तस्योतरपदस्यैवं विज्ञायेत । तत्र को दोषः ? इहप्रतिषेधः स्यात् - अर्धद्रौणिकम्, अर्धकौडविकमिति । पूर्वस्तु विधिः - अर्धमुष्टिना क्रीतोऽर्धमौष्टिक इत्यादौ चरितार्थः । तस्मातदन्तविधिनिरासार्थम्'परस्य' इत्युक्तम् ॥