7-3-26 अर्धात् परिमाणस्य पूर्वस्य तु वा वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य
अर्धशब्दात् परस्य परिमाणवाचिन उत्तरस्याचामादेरचः स्थाने वृद्धिर्भवति, पूर्वस्य तु वा भवति तद्धिते ञिति णिति किति च परतः। अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम्, अर्धद्रौणिकम्। आर्धकौडविकम्, अर्धकौडविकम्। परिमाणस्येति किम्? अर्धक्रोशः प्रयोजनमस्य आर्धक्रोशिकम्॥
अर्धात्परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णिति किति च । अर्धद्रोणेन क्रीतमार्धद्रौणिकम् । अर्धद्रौणिकम् ॥
<<अर्धात् परिमाणस्य पूर्वस्य तु वा>> - अर्धात्परिमाणस्य ।परिमाणान्तस्ये॑त्यस्मादुत्तरमिदं सूत्रम् । अर्धद्रौणिकम्-आर्धद्रौणिकमिति । द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक् । किंतु ठञेव ।
अर्द्धद्रौणिकमिति । प्राग्वतेष्ठञ् । वावचनमनर्थकम्, विभाषितमित्यनुवृतेः, तत्रैवं वक्तव्यम् - पूर्वं त्विति ? तथा तु न कृतमित्येव ॥