7-3-25 जङ्गलधेनुवलजान्तस्य विभाषितम् उत्तरम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वपदस्य
जङ्गल धेनु वलज इत्येवमन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिर्भवति, विभाषितमुत्तरम्, उत्तरपदस्य विभाषा भवति तद्धिते ञिति णिति किति च परतः। कुरुजङ्गलेषु भवं कौरुजङ्गलम्, कौरुजाङ्गलम्। वैश्वधेनवम्, वैश्वधैनवम्। सौवर्णवलजः, सौवर्णवालजः॥
जङ्गलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य वा ञिति णिति किति च । कुरुजङ्गले भवं कौरुजङ्गलजम् । वैस्वधेनवम् । वैश्वधैनवम् । सौवर्णवलजम् । सौवर्णवालजम् ॥
<<जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्>> - जङ्गलदेनु । जङ्गलाद्यन्तस्याङ्गस्येति । जङ्गल, धेनु वलज इत्यन्तस्येत्यर्थः । कुरुजङ्गले इति ।भव॑मिति शेषः । कुरुजङ्गलादिशब्दा देशविशेषेषु ।
जङ्गलमुवनप्रायो देशः, कुरुषु जङ्गलं कुरुजङ्गलम् । धेनुःउनवप्रसूता, विश्वेषां धेनुर्विश्वधेनुः । सुवर्णविकारःउवलजम्, सौवर्णवलजम् । ठुतरम्ऽ इत्युतरपदं लक्ष्यते, तस्य नित्यसन्निहितत्वात् स्वरूपेण विभाषितत्वानुपपतेर्विभाषितवृद्धिकत्वाद् विभाषितमिति गौणो वादः ॥