प्राचां नगरान्ते

7-3-24 प्राचां नगरान्ते वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वपदस्य

Kashika

Up

index: 7.3.24 sutra: प्राचां नगरान्ते


प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। सुह्मनगरे भवः सौह्मनागरः। पौण्ड्रनागरः। प्राचाम् इति किम्? मद्रनगरमुदक्षु, तत्र भवः माद्रनगरः।

Siddhanta Kaumudi

Up

index: 7.3.24 sutra: प्राचां नगरान्ते


प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च । सुह्मनगरे भवः सौह्मनागरः । पौर्वनागरः । प्राचां किम् । मनगरमुदक्षु तत्र भवो मानगरः ॥

Balamanorama

Up

index: 7.3.24 sutra: प्राचां नगरान्ते


प्राचां नगरान्ते - प्राचां नगरान्ते । अङ्गस्येत्यधिकृतं 'नगरान्ते' इति सप्तम्यनुरोधेन सप्तम्या विपरिणम्यते । उत्तरपदस्येत्यधिकृतम् ।ह्मद्भगसिन्ध्वन्ते॑ इति सूत्रात्पूर्वपदस्येत्यनुवर्तते । तदयमर्थः । प्राचां यन्नगरं तदन्ते अङ्गे पूर्वपदस्योत्तरपदस्य च अचामादेरचो वृद्धिः स्याञ् ञिति णिति किति च तद्धिते इति । सुहृनगरमिति पुण्ड्रनगरमिति च प्राग्देशस्य पूर्वान्तावधिः । मद्रनगरमुदक्ष्विति । उदग्देशे मद्रनगरं नाम किञ्चिन्नगरमस्तीत्यर्थः ।

Padamanjari

Up

index: 7.3.24 sutra: प्राचां नगरान्ते


प्राचां देश इति । आचार्यग्रहणं तु न भवति; उतरसूत्रे'विभाषितम्' इति वचनात् ॥