7-3-23 दीर्घात् च वरुणस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वपदस्य देवताद्वन्द्वे
index: 7.3.23 sutra: दीर्घाच्च वरुणस्य
दिर्घादुत्तरस्य वरुणस्य यदुक्तं तन् न भवति। ऐन्द्रावरुणम्। मैत्रावरुणम्। दीर्घातिति किम्? आग्निवारुणीमनड्वाहीमालभेते। अग्नेः ईदग्नेः सोमवरुणयोः 6.3.27 इत्यस्य अनङपवादस्य इद्वृद्धौ 6.3.28 इति प्रतिषेधो विधीयते, तेन दीर्घात् परो न भवति।
index: 7.3.23 sutra: दीर्घाच्च वरुणस्य
दीर्घात्परस्य वरुणस्य न वृद्धिः । ऐन्द्रावरुणम् । दीर्घात्किम् । आग्निवारुणीमनड्वाहीमालभेत ।<!तदस्मिन्वर्तत इति नवयज्ञादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ नावयज्ञिकः कालः । पाकयज्ञिकः ।<!पूर्णमासादण् वक्तव्यः !> (वार्तिकम्) ॥ पूर्णो मासोऽस्यां वर्तते इति पौर्णमासी तिथिः ॥
index: 7.3.23 sutra: दीर्घाच्च वरुणस्य
दीर्घाच्च वरुणस्य - दीर्घाच्च वरुणस्य । ऐन्द्रावरुणमिति । इन्द्रावरुणौ देवता अस्येति विग्रहे द्वन्द्वः । आनङ् । इन्द्परावरुमशब्दादणि दीर्घाकारात्परत्वाद्वरुणस्य नादिवृद्धिः । आग्निवारुणमिति । 'इद्वृद्धौ' इत्यग्नेरानङं बाधित्वा इत्त्वे कृते दीर्घातत्परत्वा.ञभावान्निषेधाऽभावेसति 'देवताद्वन्द्वे च' इत्युभयपदवृद्धिरिति भावः इतिप्रसङ्गिकम् ।अथ प्रकृतम् । तदस्मिन्निति ।महाराजप्रोष्ठपदाट्ठ॑ञिति सूत्रे वार्तिकमिदम् । 'तदस्मिन्वर्तते' इत्यर्थे नवयज्ञादिभ्यः प्रथमान्तेभ्यष्ठञ उपसङ्ख्यानमित्यर्थः । नावयज्ञिकः काल इति । नवयज्ञो नूतनधान्यद्रव्यको यज्ञः-आग्रयणाख्याः, स यस्मिन्काले वर्तते स नावयज्ञिकः । आग्रयणकाल इति यावत् । पाकयज्ञिक इति । पाकयज्ञः-औपासनाग्निसाध्यः-पार्वणस्थालीपाकादिः स यस्मिन्काले वर्तते स पाकयज्ञिकः । पूर्वमासादिति । 'तदस्मिन्वर्तते' इत्यर्थे पूर्णमासशब्दात्प्रथमान्तादण् वक्तव्य इत्यर्थः । पूर्णो मासोऽस्यामिति । मासः-चन्द्रमाः, पूर्णश्चासौ मासश्च पूर्णमासः=पूर्वणचन्द्रः, स यस्यां तिथौ वर्तते सा पौर्णमासी तिथिरित्यर्थः । अणिटिड्ढाणञि॑ति ङीप् । यद्यपि पूर्वणो माः-चन्द्रः-पूर्वमाः । तस्येयमित्यर्थेतस्येद॑मित्यणि पौर्णमासीति सिद्धम् । तथापि ईदृश एवार्थे अयं साधुरिति भावः ।
index: 7.3.23 sutra: दीर्घाच्च वरुणस्य
अत्र हीत्यादि । उदाहरणेषु'देवताद्वन्द्वे च' इत्यानैङ्कृते दीर्घात्परो वरुणशब्दः ॥