नेन्द्रस्य परस्य

7-3-22 न इन्द्रस्य परस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वपदस्य देवताद्वन्द्वे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

इन्द्रशब्दस्य परस्य यदुक्तंतद् न भवति। सौमेन्द्रः। आग्नेन्द्रः। परस्येति किम्? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत्। इन्द्रशब्दे द्वावचौ, तत्र तद्धित एकस्य यस्येति — ६.४.१४८ — लोपोऽपरस्य पूर्वेण सहैकादेश इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम् — <<बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः>> इति। तेन पूर्वैषुकामशम इत्यादि सिद्धं भवति॥

Siddhanta Kaumudi

Up

परस्येन्द्रस्य वृद्धिर्न स्यात् । सौमेन्द्रः । परस्य किम् । ऐन्द्राग्नः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नेन्द्रस्य परस्य>> - नेन्द्रस्य परस्य ।देवताद्वन्द्वे चेट॑त्युक्ता उभयपदवृद्धिरुत्तरपदस्य इन्द्रशब्दस्य नेत्यर्थः । सौमेन्द्र इति ।चरु॑रिति शेषः । तैत्तिरीये सौमेन्द्रं श्यामाकं चरुमिति छान्दसम् ।

Padamanjari

Up

आग्नेन्द्रम्, सौमेन्द्रमिति । ठजाद्यदन्तम्ऽ इतीन्द्रशब्दस्य पूर्वनिपातो न भवति; प्रायिकत्वातस्य । इन्द्रशब्द इत्यादि । इन्द्रश्च मरुच्चेत्यादौ व्यञ्जनान्तेन सह द्वन्द्वे इन्द्रशब्दस्य पूर्वनिपातेन भाव्यम् । यथा - ऐन्द्रामारुतीं भेदकामालभेतेति । वाय्विन्द्रावित्यादिकस्तु द्वन्द्वः सूक्तहविः सम्बन्धी न भवतीति भावः ॥