7-3-21 देवताद्वन्द्वे च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य पूर्वपदस्य
index: 7.3.21 sutra: देवताद्वन्द्वे च
देवताद्वन्द्वे च पूर्वपदस्य उत्तरपदस्य च अचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। आग्निमारुतीं पृश्निमालभेत। आग्निमारुतं कर्म। यो देवताद्वन्द्वः सूक्तहविःसम्बन्धी, तत्र अयं विधिः। इह तु न भवति, स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः। ब्रह्मप्रजापती ब्राह्मप्रजापत्यम्।
index: 7.3.21 sutra: देवताद्वन्द्वे च
अत्र पूर्वेत्तरपदयोराद्यचो वृद्धिः स्यात् ञिति णिति किति च परे । आग्निमारुतम् ॥
index: 7.3.21 sutra: देवताद्वन्द्वे च
देवताद्वन्द्वे च - वृत्तः 'साऽस्य देवता' इत्यधिकारः । अथ प्रासङ्गिकं -देवताद्वन्द्वे चमृजेर्वृद्धि॑रित्यतो वृद्धिरित्यनुवर्तते ।अचो ञ्णिती॑त्यतो ञ्णितीति,किति चे॑ति सूत्रं चानुवर्तते ।तद्धितेष्वचामादे॑रित्यतोऽचामादेरिति,ह्मद्भगसिन्ध्वन्ते पूर्वपदस्य चे॑त्यतः पूर्वपदस्येति,उत्तरपदस्य चे॑ति सूत्रं चानुवर्तते । तदाह — अत्रेत्यादिना । आग्निमारुतमिति । अग्निश्च मरुच्च अग्नामरुतौ ।देवताद्वन्द्वे चे॑त्यानङ् । अग्नामरुतौ देवता अस्य आग्निमारुतम् । अणि अनेन उभयपदादिवृद्धिः अलौकिके विग्रहवाक्ये एव आनङं बाधित्वा 'इद्वृद्धौ' इति इत्त्वम् ।
index: 7.3.21 sutra: देवताद्वन्द्वे च
अग्निवरुणौ देवता अस्य आग्निवारुणम्, अग्निमरुतौ देवता अस्य आग्निमारुतम् । ठिद्वृद्धौऽ इत्यग्निशब्दस्य इत्वम् । यो देवताद्वन्द्व इत्यादि । यः सूक्तं भजते स्तुत्यतया स सूक्तसम्बन्धी, हविर्यस्मै निरूप्यते स हविः सम्बन्धी । अर्थद्वारकं चेदं द्वन्द्वस्य विशेषणम् । स्कान्दविशाख इति ।'सास्य देवता' इत्यण् । ब्राह्मप्रजापत्यमिति ।'पत्युतरपदाण्ण्यः' । ननु'सास्य देवता' इत्यत्र न जातिवचनो देवताशब्दः, किं तर्हि ? यस्यै हविर्निरूप्यते, या वा मन्त्रस्तुत्या सास्य देवता गृह्यते; न चैवम्भूतोऽत्र द्वन्द्वार्थः, एवम्भूतत्वे वा यथा तद्धिता भवन्ति तथायमपि विधिः प्राप्नोति ? अत्राहुः - तद्धितः क्वचिदन्यत्रापि भवति - ज्ञा देवतास्य ज्ञः, स्थालीपाक इति हि भाव्ये दृष्टमिति ॥