देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्

7-3-1 देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् आत् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

देविका शिंशपा दित्यवाट् दीर्घसत्र श्रेयस् इत्येतेषामङ्गानामचामादेरचः स्थाने वृद्धिप्रसङ्ग आकारो भवति ञिति णिति किति तद्धिते परतः। देविकायां भवमुदकं दाविकमुदकम्। देविकाकूले भवाः शालयो दाविकाकूलाः शालयः। पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः। <<प्राचां ग्रामनगराणाम्>> ७.३.१४ इत्युत्तरपदवृद्धिः, साप्याकार एव भवति। शिंशपा — शिंशपाया विकारश्चमसः शांशपश्चमसः। पलाशादिरयं तेन पक्षेऽण् ४.३.१४१ अनुदात्तादिलक्षणो वाञ् ४.३.१४०। शिंशपास्थले भवाः शांशपास्थला देवाः। पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः। दित्यवाट् — दित्यौह इदं दात्यौहम्। दीर्घसत्र — दीर्घसत्रे भवं दार्घसत्रम्। श्रेयस् — श्रेयसि भवं श्रायसम्॥ वहीनरस्येद्ववचनं कर्तव्यम्॥ वृद्धिविषयेऽचामादेरचः स्थाने वहीनरस्येकारादेशो भवति। वहीनरस्यापत्यं वैहीनरिः। केचित् तु विहीनरस्यैव वैहीनरिमिच्छन्ति॥

Siddhanta Kaumudi

Up

एषां पञ्चानां वृद्धिप्राप्तावदेरच आत् स्यात् ञिति णिति किति च । दाविकम् । देविकाकूले भवा दाविकाकूलाः शालयः । शिंशपाया विकारः शांशपश्चमसः । पलाशादिभ्यो वा <{SK1521}> त्यञ् । दित्यौह इदं दात्यौहम् । दीर्घसत्रे भवं दार्घसत्रम् । श्रेयसि भवं श्रायसम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्>> - देविका । आदिवृद्धि प्रकरणे इदं सूत्रम् । षामिति । देविका, शिंशपा, दित्यवाहू, दीर्घसत्र क्षेयस् इत्येषामित्यर्थः । वृद्धिप्राप्ताविति । आदिवृद्धिप्राप्तौ तदपवादत्वेन आदेरच आकारः स्यादित्यर्थः । दाविकमिति । देविका नाम नदी, तस्यां भवमित्यर्थः । दाविकाकूला इति । उत्तरपदवृद्धिभ्रमनिरासाय इदमुदाहरसणम्, अस्य सूत्रस्य तदधिकारबहिर्भूतत्वादिति भावः । शांशप इति । इकारस्य आकारः, अञिवृद्धिः, शिशपाशब्दस्य पलाशादौ पाठात् पाक्षिको ।ञञ् । तदभावेऽणित्यर्थः । दात्यौहमिति । दित्यवाह्शब्दात्तस्येद॑मित्यणि 'वाह ऊठ्' इति संप्रसारणं, पूर्वरूपम् । 'एत्येधत्यूठसु' इति वृद्धिः । इकारस्य आदिवृद्ध्यपवाद आकारः । दीर्घसूत्रमिति ।तस्येद॑मित्यण्, आदेरीकारस्य आकारः । श्रायसमिति । तत्र भव इत्यणि एकारस्य आकारः ।

Padamanjari

Up

अत्र विशेषणविशेष्यभावे कामचाराद् देविकादिभिरङ्गं विशेष्यते, तेन वा तानि, तत्रापि सामानाधिकरण्येन, वैयधिकरण्यन वा - इति चत्वारः पक्षाः । तत्र देविकादिभिः सामानाधिकरण्येनाङ्गस्य विशेषणात् तदन्तविधिसम्भवाद्देविकाद्यन्तस्याचामादेराकारो भवतीत्यर्थः स्यात् । तत्र केवलानां न स्यात्, न हि तदेव तदन्तं भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन निषिद्धः । यदि तु प्रत्ययविधिविषयः स प्रतिषेधः । तदा केवलानां भवतु, तदादौ तु न स्यात् - देविकाकूले भवा दाविकाकूलाः शालय इति । तदन्ते चातिप्रसङ्गः - सुदेविकादौ भवं सौदेविकमिति; अत्र सोरुकारस्याकारः स्यात् । अथ वैयधिकरण्येन विशेषणम् - देविकादीनां यदङ्गमिति, किञ्चि - देविकादीनामङ्गं यत्र च तेऽवयवभूताः, ततश्च केवलान्न स्यात्, न हि स एव तस्यावयवो भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । यदि तु प्रत्ययविषयः स प्रतिषेधः, तदा केवलानां भवतु, तदन्ते त्वतिप्रसङ्गः पूर्ववत् । केवलं तदादावप्रसङ्ग एवास्मिन्पक्षे परिहृतः । अथाङ्गं समानाधिकरणं विशेषणम् - अङ्गं ये देविकादय इति, तदा तदन्तेऽतिप्रसङ्गः परिहृतः, तदादौ त्वप्रसङ्गः स्यादेव । तदेव तर्हि व्यधिकरणं वशेषिणम् - अङ्गस्य ये अवयवभूता देविकादयस्तेषामचामादेराकार इति ? तदा केवले तदादौ च न दोषः, किन्तु परपदभूतानामपि तेषामाकारप्रसङ्गः । तत्र प्राग्ग्रामे पूर्वशांशप इत्यादाविष्ट एवाकारः, सुदेविकादावग्रामे त्वनिष्टप्रसङ्गः । तदेवमेते चत्वारोऽपि पक्षा दुष्टाः । अथापरः पक्षः - अङ्गेन देवकादिभिश्चाचामादिविशेष्यते - अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धी भवतीति । अत्र पक्षे केवलेषु तदातौ चाङ्गे नास्ति दोषः, नापि सौदेविकमित्यत्र पूर्वपदस्योतरपदस्य वा प्रसङ्गः; किन्तु प्राग्ग्रामे पूर्वशांशपः - इत्यादावुतरपदभूतानां देविकादीनामाकारो न स्यात् ? नैष दोषः;'प्राचां ग्रामनगराणाम्' इत्यत्रैतदनुवर्तिष्यते, तत्र च वाक्यबेदेन सम्बन्धः - प्राचां ग्रामनगराणामुतरपदस्याचामादेरचो वृद्धिर्भवति, देविकादीनामुतरपदानामचामादेराकार इति । अयमपि वृत्तिकारस्य पक्षो न भवति; यद्ययं पक्षोऽभविष्यत्, उतरपदवृद्धावप्येतदनुवर्तिष्यत इत्येवावक्ष्यत् । कस्तर्हि वृत्तिकारस्य पक्षोऽयमभिधीयते ? परिभाषेयमान्तर्यपरिभाषाऽपवादिनी ॥ देविकादेरचामादेर्यत्र वृद्धिः प्रसज्यते । तत्रोपतिष्ठते, तेन सर्वमिष्ट्ंअ प्रसिध्यति ॥ इति । अनारभ्यमाणे एतस्मिन्, देविकादीनामादेरचो वृद्धिर्भवन्ती स्थानेऽन्तरतमवचनादैकारः प्राप्नोति, तदपवादेनाकारः प्राप्यते, तत्राङ्गं भवतु देविकादयः पूर्वपदमुतरपदं वा; सर्वथा यत्र देविकादीनामचामादेरचो वृद्धिप्रसङ्गः, तत्राकारो भवतीति परिभाष्यते । ननु च ठङ्गस्यऽ इति वर्तते ? सत्यम्; नैवमस्याभिसम्बन्धः - अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धीति, किं तर्हि ? देविकादीनामचामादेराकारो भवति स चेदङ्गस्य सम्बन्धीति । अथैवमभिसम्बन्धे किं व्यावर्त्यम् ? न किञ्चित्, अनुवृतस्य तु सम्बन्धो वक्तव्य इत्येतावत् । साप्याकार एव भवतीति । उक्तोऽत्र हेतुः । वहीनरस्येति । वहोऽस्यास्तीति वही, वही चासौ नरश्चेति वहीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् । वैहीनरिरिति । अत्राकारवृद्धिः प्राप्ता इकारेण बाध्यते । तस्य त्वैकारवृद्धिर्भवत्येव, न हि तस्यां नाप्राप्तायामिकारो विधीयते, एवं च कृत्वा सूत्रेऽप्यकार एव विधेयः, तस्याकारवृद्धौ सिद्धमिष्टम् ? तथा तु न कृतमित्येव । केचित्विति । विहीनो नरो विहीनरः, पृषोदरादित्वान्नशब्दस्य लोपः ॥