जे प्रोष्ठपदानाम्

7-3-18 जे प्रोष्ठपदानाम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ज इति जातार्थो निर्दिश्यते। तत्र यस्तद्धितो विहितस्तस्मिन् ञिति णिति किति च परतः प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिर्भवति। प्रोष्ठपदा नाम नक्षत्रम्, ताभिर्युक्तः कालः ४.२.३ इत्यण्। तस्य <<लुबविशेषे>> ४.२.४ इति लुप्। प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्योऽण् ४.३.१६ इत्यण्। प्रोष्ठपादो माणवकः। ज इति किम्? यदा प्रौष्ठपदो मेघो धरणीमभिवर्षति। प्रोष्ठपदासु भवः प्रौष्ठपदः। प्रोष्ठपदानामिति बहुवचननिर्देशात् पर्यायोऽपि गृह्यते — भद्रपाद इति॥

Siddhanta Kaumudi

Up

प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भाद्रपादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जे प्रोष्ठपदानाम्>> - जे प्रोष्ठपदानामादिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाह — प्रोष्ठपदानामिति । जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह — जातार्थे इति ।प्रोष्ठपदाना॑मिति बहुवचनस्य प्रयोजनमाह बहुवचनेति । भद्रपाद इति । भद्रपदासु जात इत्यर्थः ।

Padamanjari

Up

ज इति जातार्थो निर्दिश्यत इति । उपसरज इत्यादौ दृष्टस्य पदैकदेशस्य प्रयोगः, भीमसेनो भीम इतिवत् । बहुवचननिर्देशादिति । यद्यपि ज्योतिषां बहुत्वाद्बहुवचनान्तप्रोष्ठपदाशब्दः, तथापि तस्यैव शब्दरूपापेक्षायामेकवचनं न्याय्यं मन्यते ॥