7-3-16 वर्षस्य अभविष्यति वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य सङ्ख्यायाः
index: 7.3.16 sutra: वर्षस्याभविष्यति
सङ्ख्याया उत्तरस्य वर्षशब्दस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, स चेत् तद्धितो भविष्यत्यर्थे न भवति। द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः। त्रिवार्षिकः। अभविष्यतीति किम्? यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये, अधिकं वा अपि विध्येत, स सोमं पातुमर्हति। त्रीणि वर्षाणि भावी इति त्रैवर्षिकम्। अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न भवति। गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः। द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः।
index: 7.3.16 sutra: वर्षस्याभविष्यति
उत्तरपदस्य वृद्धिः स्यात् । द्विवार्षिको मनुष्यः । भविष्यति तु द्वैवर्षिकः । अधीष्टभृतयोरभविष्यतीति प्रतिषेधो न । गम्यते हि तत्र भविष्यत्ता न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यतीति द्विवार्षिको मनुष्यः । परिमाणान्तस्यासंज्ञाशाणयोः <{SK1683}> द्वौ कुडवौ परिमाणमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । द्विनैष्किकम् । असंज्ञेति किम् । पञ्च कलापाः परिमाणमस्य पाञ्चकलापिकम् । तद्धितान्तः संज्ञैषा । द्वैशाणम् । कुलिजशब्दमपि केचित्पठन्ति । द्वैकुलिजिकः ॥
index: 7.3.16 sutra: वर्षस्याभविष्यति
वर्षस्याभविष्यति - ठञि आदिवृद्धौ प्राप्तायां — वर्षस्याभविष्यति । आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । शेषपूरणेन तद्व्याचष्टे — उत्तरपदस्य वृद्धिः स्यादिति । अभविष्यति यो ञिदादिः, तस्मिन्परे इत्यर्थः । निर्वृत्तादिषु पञ्चस्वर्थेषु भविष्यदर्थं वर्जयित्वा तदितरेषु चतुष्र्वर्थेषु यस्तद्धितस्तस्मिन्परे इति यावत् । द्विवार्षिक इति ।व्याधि॑रिति । शेषः । चित्तवति नित्यलुको वक्ष्यमाणत्वात् । नन्वेवं सति द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिक इत्यत्र कथमुत्तरपदवृद्धिः, भविष्यत्त्वस्य प्रतीतेरित्याशङ्क्याह — अधीष्टभृतयोरभविष्यतीति प्रतिषेधो नेति । कुत इत्यत आह — गम्यते हि तत्र भविष्यत्तेति । अध्येषणभरणयोः क्तप्रत्ययेन भूतत्वमेव शब्दशक्त्या गम्यते । तद्धितप्रत्ययेन च तथाविधाऽध्येषणभरणकर्मीभूतौ प्रतीयेते । एवंविधाऽध्येषणभरणविशिष्टयोस्तु भविष्यता कर्माचरणेन सम्बन्धः कर्म करिष्यतीत्यनेनावगत इति न स तद्धितार्थः । एवंच तत्रापि भविष्यदर्थकतद्धितपरकत्वाऽभावात्स्यादेवोत्तरपदवृद्धिरित्यर्थः । द्विवार्षिको मनुष्य इति ।चित्तवति नित्य॑मिति वक्ष्यमाणस्तु नित्यलुङ्ग भवति, चित्तवतीत्येवारम्भसामर्थ्यान्नित्यत्वे सिद्धे पुनर्नित्यग्रहणेन भूत एवार्थे नित्यं लुगित्यभ्युपगमादिति हरदत्तः । केचित्तुद्विवार्षिकः — अमनुष्य॑ इति छिन्दन्ति ।
index: 7.3.16 sutra: वर्षस्याभविष्यति
यस्येत्यादि । यस्य यियक्षोर्यागवर्षादारभ्य त्रीणि वर्षाणि धान्यं भाविउतावन्तं कालं जीवनाय पर्याप्तम्, स सोमयागेऽधिकारी, न न्यून इत्यर्थः । गम्यते हीति । वाक्यार्थस्तत्र भविष्यता, न पदार्थ इत्यर्थः । द्विवाषिंको मनुष्य इति ।'वर्षाल्लुक्' ,'चितवति नित्यम्' इति नित्यं लुग्न भवति; भूतार्थ एव हि स इष्यते, अन्यत्र चितवत्यपि विकल्प एव ॥