प्राचां ग्रामनगराणाम्

7-3-14 प्राचां ग्रामनगराणाम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य दिशः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्राचां देशे ग्रामनगराणां दिश उत्तरेषामचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति कित च परतः। ग्रामाणाम् — पूर्वषुकामशम्यां भवः पूर्वैषुकामशमः। अपरैषुकामशमः। पूर्वकार्ष्णमृत्तिकः। अपरकार्ष्णमृत्तिकः। नगराणाम् — पूर्वस्मिन् पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः। अपरपाटलिपुत्रकः। पूर्वकान्यकुब्जः। अपरकान्यकुब्जः। ग्रामत्वादेव नगराणामपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत् संबन्धभेदप्रतिपत्त्यर्थम्। दिक्पूर्वपदो हि समुदायः पूर्वषुकामशम्यादिः ग्रामनामधेयम्। पाटलिपुत्रादिः पुनरुत्तरपदमेव नगरमाह। तत्र ग्रामवाचिनामङ्गानामवयवस्य दिक्शब्दादुत्तरस्य वृद्धिर्भवति इत्येवमभिसंबन्धः क्रियते, इतरत्र तु दिश उत्तरेषां नगराणामित्येव। पूर्वैषुकामशम इत्येवमादिषु कृतायामुत्तरपदवृद्धौ एकादेशो भवतीति ज्ञापितं <<नेन्द्रस्य परस्य>> ७.३.२२ इति प्रतिषेधेन॥

Siddhanta Kaumudi

Up

दिशः परेषां नगरवाचिनां ग्रामवाचिनामङ्गनामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे, पूर्वपाटलिपुत्रकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्राचां ग्रामनगराणाम्>> - प्राचां ग्रामनगराणां । दिश इति । दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेर्वृद्धिः स्यादित्यर्थः । पूर्वेषु कामशम्यामिति.॒दिक्संख्ये संज्ञायाम् इति समासः । अण् ष संज्ञात्वात् ।दिक्पूर्वपदा॑दिति ञ न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरे इति । उदाहरणसूचनम् । पूर्वपाटलिपुत्रक इति ।पूर्वापरप्रथमे॑ति समासः ।अवृद्धादपी॑ति वुञ् । यद्यपि पाटलिपुत्रशब्दे उत्तरपदे आदिर्वृद्धिरेव । तथापि पूर्वपदस्य वृद्धिनिवृत्ति फलम् ।

Padamanjari

Up

'प्राचाम्' इति नाचार्यनिर्द्देशः; जनपदादिभिर्देअशैः साहचर्यात् । पूर्वैषुकामशम इति । पूर्वा चासाविषुकामशमी चेति'दिक्संख्ये संज्ञायाम्' इति समासः, ततो भवार्थे'दिक्पूर्वपदादसंज्ञायां ञः' इति ञप्रत्ययः । पूर्वपाटलिपुत्रक इति । पूर्ववत्समासः, रोपधेतोः प्रचाम्ऽ इति वुञ् । यद्यप्येकमेव पाटलिपुत्रम्, तथापि पाटलिपुत्रस्यैकदेशे पाटलिपुत्रशब्दस्य वृतेः पूर्वत्वविशेषणं युक्तमेव । जना यत्र सन्ति स ग्रामः, ततश्च नगरमपि ग्रामः । ये हि ग्रामे विधयो नेष्यन्ते साधीयस्ते नगरेऽपि न क्रियन्ते । तद्यथा - ठभक्ष्यो ग्रामकुक्कुटःऽ इति सुतरां नागरोऽपि न भक्ष्यते ।'ग्रामे नाध्येयम्' इति साधीयो नगरेऽपि नाधीयते । शास्त्रेऽपि - ठुदीच्यग्रमाच्च बह्वचोऽन्तोदातात्ऽ,'वाहीकग्रामेभ्यश्च' ,'दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु' - नगरमपि गृह्यते, तस्मादिहापि नार्थो नगरग्रहणेन ? इत्यत आह - ग्रामत्वादेवेति । सम्बन्धभेदप्रतिपत्यर्थमिति । अङ्गस्येति प्रकृतम्, उतरपदस्येति च, तत्र ग्रामाणामित्येतदङ्गस्येत्यनेन सम्बध्यते - ग्रामवाचिनामङ्गानामिति । नगराणामित्येतदुतरपदस्येत्यनेन - नगरवाचिनामुतरपदानामिति । न चायं सम्बन्धभेदः सकृदुपाते ग्रामशब्दे सम्भवति, तस्मान्नगरग्रहणं क्रियते । तत्र दिक्पूर्वपदो हीत्यादिना सम्बन्धभेद आश्रयणीय इत्यत्र हेतुर्दर्शितः । तत्रैत्यादिना तु स एव सम्बन्धभेदः । इह पूर्वैषुकामशम इति समसनक्रियानन्तरं पूर्वोतरपदयोर्गुणः प्राप्नुवन्नन्तरङ्गः, उतरपदवृद्धिस्तु पश्चादुपनततद्धितापेक्षत्वाद्बहिरङ्गा, तत्र गुणे कृते पूर्वोतरयोर्व्यपवर्गाभावाद्वृद्धिर्न प्राप्नोति; अन्तादिवद्भावोऽप्युभयत आश्रयणे प्रतिषिद्धः । अत्र हि द्ग्वाचि पूर्वपदमुतरपदं च युगपदाश्रीयते, तत्राह - पूर्वैषुकामशम इत्येवमादिष्विति । यथा'नेन्द्रस्य परस्य' इति ज्ञापकम्, तथा तत्रैव वक्ष्यामः ॥