7-3-13 दिशः अमद्राणाम् वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य जनपदस्य
index: 7.3.13 sutra: दिशोऽमद्राणाम्
दिग्वाचिनः उत्तरस्य जनपदवाचिनो मद्रवर्जितस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः। पूर्वपाञ्चालकः। अपरपाञ्चालकः। दक्षिणपाञ्चालकः। पूर्ववत् तदन्तविधिः प्रत्ययश्च। दिशः इति किम्? पूर्वः पञ्चालानाम् पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः। आपरपञ्चालकः। अमद्राणाम् इति किम्? पौर्वमद्रः। आपरमद्रः। मद्रेभ्योऽञ् 4.2.108 इति अञ्प्रत्ययः।
index: 7.3.13 sutra: दिशोऽमद्राणाम्
दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । दिशः किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । अमद्राणां किम् । पौर्वमद्रः । योगविभाग उत्तरार्थः ॥
index: 7.3.13 sutra: दिशोऽमद्राणाम्
दिशोऽमद्राणाम् - दिशोऽमद्राणाम् ।अमद्राणा॑मिति च्छेदः । दिग्वाचकादिति ।परस्ये॑ति शेषः । जनपदवाचिन इति । मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति ।आदे॑रिति शेषः । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्र इति ।मद्रेभ्योऽञि॑त्यञ् । ननुसुसर्वार्धदिशो जनपदस्याऽमद्राणा॑मित्येकसूत्रमेवास्त्वित्यत आह — योगविभाग उत्तरार्थ इति ।प्राचां ग्रामनगराणा॑मित्युत्तरसूत्रे दिश एव संबन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्रशब्दस्य पर्युदासः प्रसज्येतेति इहार्थोऽपीत्येके ।
index: 7.3.13 sutra: दिशोऽमद्राणाम्
पूर्वपाञ्चालक इति । तद्धितार्थे समासः । पौर्वपञ्चालक इति । अवयववाच्यत्र पूर्वशब्दः, एकदेशिसमासाद् वुञ्प्रत्ययः । अदिक्शब्दत्वाद् आदिवृद्धिरेव भवति । यद्येवम्, वुञापि न भवितव्यमदिक्शब्दत्वादेव ? अस्त्यत्र विशेषः, सुसर्वार्द्धाद्दिक्शब्देभ्य इति तदन्तविधौ शब्दग्रहणं क्रियते - दिशि दृष्टः शब्दो दिक्शब्द इत्येवं यथा विज्ञायेत, वृद्धिविधौ तु दिश इत्येतावदुच्यते । अन्ते त्वणन्तमेव प्रत्युदाहरणं पठन्ति ॥