सुसर्वार्धाज्जनपदस्य

7-3-12 सुसर्वार्धात् जनपदस्य वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सु सर्व अर्ध इत्येतेभ्य उत्तरस्य जनपदवाचिन उत्तरपदस्याचामादेरचो वृद्धिर्भवति तद्धिते ञिति णिति किति च परतः। सुपाञ्चालकः। सर्वपाञ्चालकः। अर्धपाञ्चालकः। <<जनपदतदवध्योश्च>> ४.२.१२४, <<अवृद्धादपि बहुवचनविषयात्>> ४.२.१२५ इति वुञ्। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (महाभाष्य १.१८६) इति तदन्तविधिः॥

Siddhanta Kaumudi

Up

उत्तरपदस्य वृद्धिः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योः - <{SK1348}> इति वुञ् ।<!सुसर्वार्धदिक्शब्देभ्यो जनपदस्येति तदन्तविधिः !> (वार्तिकम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सुसर्वार्धाज्जनपदस्य>> - सुसर्वार्धाज्जनपदस्य । सु, सर्व, अर्ध इत्येतत्पूर्वस्य जनपदवाचिन इत्यर्थः । उत्तरपदस्य वृद्धिरिति । शेषपूरणम् । सुपाञ्चालक इति । सुपञ्चालेषु जात इत्यर्थः । जनपदेति ।जवपदतदवध्यो॑रित्यनुवृत्तौअवृद्धादपि बहुवचनविषया॑दिति वुञित्यर्थः । ननुअनृद्धादपी॑ति प्रत्ययविधौ कथं तदन्तविधिरित्यत आह — सुसर्वेति । सु, सर्व अर्ध, दिक्शब्द -एभ्यः परस्य जनपदवाचिन उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकेनयेन विधि॑रिति सूत्रभाष्यपठितवचनेन तदन्तविधिरित्यर्थः ।

Padamanjari

Up

जनपदवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरसूत्रे मद्रप्रतिषेधात् । सुसर्वार्धेत्यादि । जनपदवाचिनः शब्दस्यानन्तरे प्रत्यये विधीयमाने तदन्तस्यापि ग्रहणं भवति, यदि सुप्रभृतिभ्यः परः सम्भवतीत्यर्थः ॥