7-2-97 त्वमो एकवचने विभक्तौ युष्मदस्मदोः मपर्यन्तस्य
एकवचने इत्यर्थनिर्देशः। एकवचने ये युष्मदस्मदी एकार्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः। त्वाम्। माम्। त्वया। मया। त्वत्। मत्। त्वयि। मयि। यदा समास एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसंख्यत्वाद् द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः। आदेशान्तराणां तु <<त्वाहौ सौ>> ७.२.९४ इत्येवमादीनां विषये पूर्वविप्रतिषेधेन त एवेष्यन्ते। अतिक्रान्तस्त्वाम् अतित्वम्। अत्यहम्। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तान् त्वामतित्वान्। अतिमान्। अतिक्रान्ताभ्यां त्वामतित्वाभ्याम्। अतिमाभ्याम्। अतिक्रान्तैस्त्वामतित्वाभिः। अतिमाभिः। इत्येवमाद्युदाहर्तव्यम्॥
एकस्योक्तौ युष्मदस्मदोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ ॥
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥
<<त्वमावेकवचने>> - अथ द्वितीयैकवचनस्याऽमोङे प्रथमयो॑रित्यमि कृते युष्मद् अम्, अस्मद् अम् इति स्थिते — त्वमावेकवचने ।युष्मदस्मदोरनादेशे॑ इत्यतोयुष्मदस्मदो॑रित्यनुवर्तते ।मपर्यन्तस्ये॑त्यधिकृतम् । एकवचनशब्दो यौगिक एव, वचनग्रहणसामर्थ्यात् । तदाह — एकस्येत्यादिना ।
एकवचन इत्यर्थनिर्देश इत्यादि । एतच्च द्विवचन इत्यर्थनिर्द्देशः इत्येतदनुसारेण योज्यम् । अर्थग्रहणे यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - तदेति । पारिभा, इकस्य त्वेकवचनस्य ग्रहणेऽत्र न स्यादित्यव्याप्तिः । अतिक्रान्तौ त्वामिति । तदापि त्वमौ भवत इत्यस्योदाहरणम् । अतित्वामिति । पूर्ववदात्वम् । एवमन्यदुदाहर्तव्यमिति । एतद् अतित्वम्, अत्यहमित्यनेनापि सम्बध्यते । अतियूयम्, अतितुभ्यम्, अतितव । एवमस्मदः । अतित्वामतिमामित्यनेन तु सम्बन्धः स्पष्ट एव । अतित्वां पश्य अतित्वान्, अतित्वाभ्याम्, अतित्वाभिः, अतित्वभायम् । अतित्वम् । अतित्वयोः अतित्वाकम् । अतित्वयि, अतित्वयोः, अतित्वासु । एवमस्मदः । अत्रानन्तरं यदा युष्मदस्मदी द्वित्वबहुत्वयोर्वर्तेते समासार्थेस्यैकत्वं तदा त्वमौ न भवतः अतिक्रान्तं युवामतियुवाम्, अत्यावाम् । अतिक्रान्तं युष्मान् अतियुष्मान्, अत्यस्मान् । एवं नेयमिति पठितव्यम् पूर्वानुसारेण गम्यमानत्वान्न पठितम् ॥