तवममौ ङसि

7-2-96 तवममौ ङसि विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

युष्मदस्मदोर्मपर्यन्तस्य तव मम इत्येतावादेशौ भवतो ङसि परतः। तव। मम। परमतव। परममम। अतितव। अतिमम॥

Siddhanta Kaumudi

Up

अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि ॥

Laghu Siddhanta Kaumudi

Up

अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तवममौ ङसि>> - अथ षष्ठी । तवममौ ङसि ।युष्मदस्मदोरनादेशे॑ इत्यतोयुष्मदस्मदो॑रित्यनुवर्तते । मपर्यन्तस्येत्यधिकृतं । तदाह-अनयोरिति । युष्मदस्मदोरित्यर्थः । 'त्वमावेकवचने' इत्यस्यापवादः ।

Padamanjari

Up