यूयवयौ जसि

7-2-93 यूयवयौ जसि विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

युष्मदस्मदोर्मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः। यूयम्। वयम्। परमयूयम्। परमवयम्। अतियूयम्। अतिवयम्। तदन्तविधिरत्र भवति॥

Siddhanta Kaumudi

Up

स्पष्टम् । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । इह शेषे लोपोऽन्त्यलोप इति पक्षे जसः शी प्राप्तः । [(परिभाषा - ) अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्] - इति न भवति । ङेप्रथमयोः <{SK382}> इत्यत्र मकारान्तरं प्रश्लिष्य अम् मान्त एवावशिष्यते नतु विक्रियत इति व्याख्यानाद्वा ॥

Laghu Siddhanta Kaumudi

Up

अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यूयवयौ जसि>> - ॒ङे प्रथमयो॑रिति जसोऽमि कृते विशेषमाह — यूववयौ जसि । स्पष्टमिति । युष्मदस्मदोर्मपर्यन्तस्य यूय वय इत्यादेशौ२ स्तौ जसि परत इति सुगममित्यर्थः । यूय अद् अम्, वय अद् अम् इति स्थिते पररूपे 'शेषे लोपः' इति मपर्यन्ताच्छेषस्य अदो लोपे परिनिष्ठितं रूपमाह — यूयं वयमिति । परमयूयमिति.यूयवयविधेराङ्गत्वात्तदन्तविधिरिति भावः । अतियूयमिति । गौणत्वेऽपि तदप्रवृत्तौ मानाऽभावादिति भावः । अत्र शीभावमाशङ्क्य परिहरति-इहेति । इहशेषे लोप इत्यन्त्यलोप॑ इति पक्षे दकारस्य लोपे सति अवर्णान्तात्सर्वनाम्नः परत्वाज्जसः शीभावः । प्राप्तो न भवतीत्यन्वयः । कुत इत्यत आह-अङ्गकार्ये इति अङ्गादिकारविहिते कार्ये कृते सति पुनरङ्गाधिकारविहितं कार्यं न भवतीत्यर्थः । तेन त्वमित्यत्र पररूपे कृते 'अमि पूर्वः' इत्यस्य नानुपपत्तिः । 'ज्यादादीयसः' इति सूत्रेज्ञाजनोर्जे॑ति सूत्रे चअङ्गवृत्ते पुनर्वृत्तावविधि॑रिति परिभाषा स्थिता । सा चाऽत्रार्थत उपनिबद्धा । नच द्वाभ्यामित्यत्र त्यदाद्यत्वे कृतेसुपि चे॑ति दीर्घो न स्यादिति वाच्यं,द्वयोरेकस्ये॑त्यादिनिर्देशेन तदनित्यत्वज्ञापनात् । प्रकृते च शेषलोपस्य आङ्गस्य प्रवृत्तत्वाद#आङ्गः शीभावो न भवतीति भावः । ननु 'अङ्गकार्ये' इति परिभाषा नात्र प्रवर्तते । शीभावस्य अङ्गाधिकारविहितत्वेऽपि अङ्गाधिकरणकत्वाऽभावात्अह्गवृत्ते पुनर्वृत्तावविधिः॑ इति परिभाषास्वारस्येन तथैव प्रतीतेः । अतोऽत्र शीभावो दुर्वार इत्यस्वरसादाह — ङे प्रतमयोरिति ।ङे प्रथमयोर॑मित्यत्र अम् म् इति मकारान्तरं प्रश्लिष्यते । अम् च म् चेति द्वन्द्वः । अन्त्यो मकारः संयोगान्तलोपेन लुप्तः । प्रश्लिष्टश्च मकारोऽमो विशेषणं, तदन्तविधिः मकारान्तोऽम् स्यादिति लभ्यते । मकारान्तस्य अमः पुनर्मान्तत्वविधानादम् मान्त एव भवति नतु तस्य विकारो भवतीति लभ्यते । अतो न शीभाव इत्यर्थः । वस्तुतस्तु मकारान्तरप्रश्लेषो बाष्येऽदर्शनादुपेक्ष्यः । संनिपातपरिभाषयैवाऽत्र शीभावो न भवति । दकारस्य शेषलोपो हि आत्वयत्वनिमित्तेतरात्मकशेषविभक्त्यात्मकस्य अमो युष्मदस्मदोश्च संनिपातमाश्रित्य प्रवृत्तः । ततः शीभावे तु आद्गुणे यूये वये इति स्यात् । तत्र एकादेशस्य पूर्वान्तत्वे प्रकृत्यनुप्रवेशात् प्रत्ययसंनिपातभङ्गः । परादित्वे तु युष्मदस्मत्संनिपातविरोध इत्यलम् ।

Padamanjari

Up

परमयूयमिति । अत्र पारम्ययोगो यथासम्भवं द्रष्टव्यः । तदन्तविधिरत्र भवतीति । अङ्गाधिकारे तस्य च तदुतरपदस्य चेति वचनात् । यदापि तदन्तस्य, तदापि न सर्वस्य, युष्मदस्मदोर्मपर्यन्तस्येत्यधिकारात् ॥