युवावौ द्विवचने

7-2-92 युवावौ द्विवचने विभक्तौ युष्मदस्मदोः मपर्यन्तस्य

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्विवचने इत्यर्थग्रहणम्। द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोर्मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः। युवाम्। आवाम्। युवाभ्याम्। आवाभ्याम्। युवयोः। आवयोः। यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्यान्यसंख्यत्वादेकवचनं बहुवचनं वा भवति, तदापि द्व्यर्थयोर्युष्मदस्मदोर्युवावौ भवतः, यदि <<त्वाहौ सौ>> ७.२.९४ इत्येवमादिना आदेशान्तरेण न बाध्येते। अतिक्रान्तं युवाम् अतियुवाम्। अत्यावाम्। अतिक्रान्तान् युवाम् अतियुवान्। अत्यावान्। अतिक्रान्तेन युवाम् अतियुवया। अत्यावया। अतिक्रान्तैर्युवाम् अतियुवाभिः। अत्यावाभिः। अतिक्रान्तेभ्यो युवाम् अतियुवभ्यम्। अत्यावभ्यम्। अतिक्रान्ताद् युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तेभ्यो युवाम् अतियुवत्। अत्यावत्। अतिक्रान्तानां युवाम् अतियुवाकम्। अत्यावाकम्। अतिक्रान्ते युवाम्। अतियुवयि। अत्यावयि। अतिक्रान्तेषु युवाम् अतियुवासु। अत्यावासु। त्वाहादीनां तु विषये परत्वात् त एव भवन्ति। अतिक्रान्तो युवाम् अतित्वम्। अत्यहम्। अतिक्रान्ता युवाम् अतियूयम्। अतिवयम्। अतिक्रान्ताय युवाम् अतितुभ्यम्। अतिमह्यम्। अतिक्रान्तस्य युवाम् अतितव। अतिमम। यदा तु युष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः। अतिक्रान्तौ त्वाम् अतित्वाम्। अतिमाम्। अतिक्रान्तौ युष्मान् अतियुष्माम्। अत्यस्माम्। एवमुन्नेयम्॥

Siddhanta Kaumudi

Up

द्वियोरुक्तौ युष्मदस्मदोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥

Laghu Siddhanta Kaumudi

Up

द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<युवावौ द्विवचने>> - ॒युष्मद्-औ, अस्मद्-औ, इति स्थितेङे प्रथमयो॑रित्यमि कृते युष्मद्-अम्, अस्मद्-अम् इति स्थिते-युवावौ द्विवचने ।युष्मदस्मदोरनादेशे॑ इत्ययो युष्मदस्मदोरित्यनुवर्तते । मपर्यन्तस्येत्यदिकृतम् । उक्तिर्वचनम् । द्वयोर्वचनं द्विवचनम् । तत्र समर्थयोरित्यर्थः । द्वित्वविशिष्टार्थवाचिनोरिति यावत् । नतु द्विवचनसंज्ञके प्रत्यये परे इत्यर्थः, वचनग्रहणसामर्थ्यात् । अन्यथा 'द्वित्वे' इत्येव ब्राऊयात् । 'अष्टन आ विभक्तौ' इत्यते विभक्तावित्यस्यानुवृत्तौ सत्यां द्वित्वे या विभक्तिस्तस्यां परत इत्यर्थलाभात् । तदाह — द्वयोरुक्तावित्यादिना । द्वयोरुक्तावित्याश्रयणस्य फलमग्रे मूल एव स्पष्टीभविष्यति ।

Padamanjari

Up

द्विवचन इत्यर्थग्रहणमिति । वक्तीति वचनम्, कृत्यल्युटो बहुलम्, इति कर्तरि ल्युट्, द्वयोरर्थयोर्वचने एद्विवचने । प्रथमाद्विवचनान्तं चैतत्, तदाह - द्विवचने युषमदस्मदी इति । के पुनस्ते इत्याह - द्व्यर्थाभिधानविषये इति । एतच्च वचनग्रहणाल्लभ्यते । कथम् द्वित्व इति वक्तव्यम्, विभक्तावित्येव, द्वित्ये या विभक्तिस्तस्यामित्यर्थः । अर्थग्रहणे सति यदिष्ट्ंअ सम्पद्यते, तद् दर्शयति - यदेति । पारिभाषिकस्य द्विवचनस्य ग्रहणे तस्यास्मिन्विषयेऽभावद्यौवावादेशौ न स्यातामित्यव्याप्तिः स्यादिति भावः । आदेशान्तरेण न बाध्येते इति । बाधस्तु परत्वादित्यत्रैव वक्ष्यते । अतिक्रान्तं युवामिति सौ जसि चादेशान्तरेण बाधः । द्विवचनस्य तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उतरत्रापि तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उतरत्रापि द्विवचनस्यातिक्रमेऽयमेव हेतुः । तत्र चानादेशे विभक्तौ हलादौ द्वितीयायां च आत्वम्, अजादौ यत्वम्, शेषे लोपः, णेóप्रथमयोरम्, इत्यादयो विभक्त्यादेशाश्च यताययं द्रष्टव्याः । परत्वादिति । त्वाहादीनामवकाशः यदा बह्वर्थे युष्मदस्मदी - अतिक्रान्तो युष्मानतित्वम्, अत्यहम्, युवावयोरकाशः - युवाम्, आवाम् व्द्यर्थत्वे सति, सावुभयप्रसङ्गे विप्रतिषेधः । यदा त्वित्यादि । पारिभाषिकस्य ग्रहणे तत्रापि प्रसङ्ग इत्यतिव्याप्तिः स्यादिति भावः । अतिक्रान्तौ त्वाम् , अतित्वामिति । प्रथमायाश्च द्विवचने भाषायाम् इत्यात्वम् । यदात्र पारिभाषिकस्य ग्रहणमिति मत्वेदमुदाहृतम् । अथापि तत्राप्यर्थग्रहणम्, तथापि बह्वर्थेऽतिप्रसङ्ग इत्याह - अतिक्रान्तौ युष्मानिति । पूर्ववदात्वम् । एवं ज्ञेयमिति । अतियुष्माम्, अतियुष्माभ्याम्, अतियुष्मयोः । एवमस्मदः ॥