7-2-91 मपर्यन्तस्य विभक्तौ युष्मदस्मदोः
index: 7.2.91 sutra: मपर्यन्तस्य
मपर्यन्तस्य इत्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामो मपर्यन्तस्य इत्येवं तद् वेदितव्यम्।
index: 7.2.91 sutra: मपर्यन्तस्य
इत्यधिकृत्य ॥
index: 7.2.91 sutra: मपर्यन्तस्य
मपर्यन्तस्य इत्यवयवस्य स्थानित्वेन निर्देशाद्यौष्मदस्मदोरित्यवयवषष्ठी विज्ञायते - मः पर्यन्तोऽवधिर्यस्य स मपर्यन्तः । यद्यपि द्वयोद्वाê मपर्यन्तौ, तथाप्यभेदक्विक्षयैकवचनम् । मपर्यन्तस्यैति किमिति । समुदाययोरप्यादेशे आदेशानामप्यदन्तत्वाद्दोषाबाव इति प्रश्नः । साकच्कस्य मा भूदिति । तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सर्वस्य मा भूदिति । साकच्कस्य मा भूदिति तु नोक्तम्, यस्मादकज्विधावुक्तम् - त्वया, मया, त्वयि, मयि इत्यत्र सुबन्तस्य प्राक्टेरकच् इति । अनिष्ट्ंअ रूपं स्यादिति । त्व्या, म्येत्यनिष्ट्ंअ रूपम् । अथ परिग्रहणं किमर्थम्, मान्तस्येत्येवोच्येत, युष्मदस्मदोर्यो मान्तो भागास्तस्येत्यर्थः तत्राह - मान्तस्येत्येव सिद्धेऽस्मिन्निति । अस्मिन् साकच्कस्या देशाभावे, युवकाम्, अवकामिति रूपे वा । अवधिद्योतनार्थमिति । पर्यन्तशब्देनावधिं द्योतयामीत्यर्थः । अन्यथा मान्तस्येत्युच्यमाने युष्मदष्मदोः समानाधिकारणं विशेषणं सम्भाव्येत, प्रत्येकसम्बन्धाच्चैकवचनम्, ततश्च यत्र मान्ते युष्मदस्मदी तत्रैवादेशाः स्युः । अथापि वैयधिकरण्यमाक्षीयते, तथापि चत्र मान्ते तत्र भेदाभावादादेशा न स्युः । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । पर्यन्तशब्देन त्ववधिद्योतने तदुपादानसामर्थ्याद्यौष्मद्स्मदवयवेऽपि युष्मदस्मच्छब्दौ वर्तेते इति सर्वत्रादेशसिद्धिः । वैयधिकरण्येन वा सम्बन्धे परिग्रहणसामर्थ्याद् व्यपदेशिवद्भावोऽप्रतिपदिकेन इति प्रतिषेधाप्रवृतौ मान्तयोरप्यादेशासिद्धिः । अपर आह - सति शेषे पर्यन्तशब्दः, तेन सामानाधिकरण्यासम्भावद्वैयधिकरण्येनैवान्वयः । यदा तु मान्ते युष्मदस्मदी तदा नैवादेशा भवन्ति, तदिदमुक्तम् मान्ते मा भूद्यदा तदेति । यदा युष्मदस्मदी मान्ते तदैव मा भूत्, तदापि वा मा भूदित्यर्थः । क्व पुनर्मान्ते युष्मदस्मदी इत्याह - ण्यन्तयोरिति । युष्मानाचष्टे युष्मयति, अस्मानाचष्टे अस्मयति णिचीष्ठवद्भावे टिलोपः, प्रत्ययोतरपदेयोश्च इत्यत्रैकवचनाधिकारात्वमादेशाभावः । क्विपि णिलोपः । ननु च विभक्तावादेशैर्थाव्यम्, अत्र च णिलोपस्य स्थानिवद्भावाव्द्यवधानमत आह - स्थानिवत्वं चेति । णेः क्वौ लुप्तत्वान्न तल्लोपस्यात्र स्थानिवत् इत्येवमिति भाष्वकारः । तत्र यो मन्यते - मान्तयोरप्यादेशा भवन्तीति , तन्मतेनोदाहरणानि । कृदन्तत्वाद्विभक्तयः, एकदेशविकृतस्यानन्यत्वाद्यौष्मदस्मदाश्रयविभक्त्यादेशाः प्रकृत्यादेशाश्च त्वादयः तत्र त्वाहौ सौ इत्यादिविषये ते भवन्ति । अन्यत्रादेशविभक्तौ लोपः, अजादौ यत्वम्, हलादावात्वम् - त्वम्, युषाम्, युयम्, युषाम्, युषाम्, युषान्, युष्या, युषाभायम्, युषाभिः, तुभ्यं युषाभ्यां युषभ्यम्, युषत्, युषाभ्याम्, युषत्, तव, युष्योः, युषाकम् युष्यि, युष्यो, युषासु । एवमस्मदोऽपि द्रष्टव्यम् । मपर्यन्तापेक्षया तु शेष आश्रीयमाणे, मात्परस्याभावाल्लोपाभावात् युष्मभायम्, युष्मदित्यादि भवति । यदा तु त्वामोचष्टे, मामाचष्ट इति विगृह्य क्विप् क्रियते, तदा प्रत्ययोतरपदयोश्चेति त्वमयोः कृतयोः प्रकृत्यैकाच् इति प्रकृतिभावादसति टिलोपे अत उपधायाः इति वृद्धिः । यदि निष्ठितमङ्गं ततो वदद्ध्यभावः । त्वद्स् त्वाद्स्, मद्स् चमादस् इति स्थिते मपर्यन्ताभावात् त्वाहौ सौ इत्यादेरप्रवृतौ वृद्धिपक्षे त्वामिति भवति । पक्षान्तरे तु त्वमिति । द्विवचने तु त्वाम्, जसि त्वम् । द्वितीयादिषु तु त्वाम्, त्वाम्, त्वान्, त्वया, त्वाभ्याम्, त्वाभिः, त्वम्, त्वाभ्याम्, त्वभ्यम्, त्वत्, त्वाभ्याम्, त्वत्, त्व, त्वयोः, त्वाकम्, त्वयि, त्वयोः त्वासु । एवमस्मदोऽपि । यदा तु द्विवचनान्ताण्णिच् क्रियते, तदापि युष्मयत्यस्मयतीति णिचि भवति, विभक्त्यभावाद्यौवावयोरभावः । एकार्थत्वाभावात् प्रत्ययोतरपदयोश्च इत्यस्याप्यभावः । विभक्तौ तु युवावादेशौ । त्वहौ सो इत्यादिविषये तु त एव भवन्ति । ये तु मान्तयोरादेशौ नेच्छन्ति तेषां सौ, शेषेलोपपक्षे - युषम्, असमिति भवति । पक्षान्तरे तु युष्मम्, अस्ममिति । एवमन्यत्रापि द्रष्टव्यम् । गहनोऽयं प्रकियातर्क इत्युपरम्यते ॥