7-2-9 तितुत्रतथसिसुसरकसेषु च न इट् वशि कृतिः
ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति। तीति क्तिन्क्तिचोः सामान्यग्रहणम्। क्तिच् — तनिता। तनितुम्। तन्तिः। क्तिन् — दीपिता। दीपितुम्। दीप्तिः। तु — <<सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्>> (प०उ०१.६९) — सचिता। सचितुम्। सक्तुः। त्र — <<दाम्नीशसयुयुज०>> ३.२.१८२ इति ष्ट्रन्। पतिता। पतितुम्। पत्त्रं वाहनम्। उणादिष्वपि <<सर्वधातुभ्यः ष्ट्रन्>> (प०उ० ४.१६०) — तनिता। तनितुम्। तन्त्रम्। त — <<हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्>> (प०उ० ३.८६) — हसिता। हसितुम्। हस्तः। लविता। लवितुम्। लोतः। पविता। पवितुम्। पोतः। धूर्विता। धूर्वितुम्। धूर्तः। औणादिकस्यैव तशब्दस्य ग्रहणमिष्यते, न पुनः क्तस्य। हसितमित्येव हि तत्र भवति। थ — <<हनिकुषिनीरमिकाशिभ्यः क्थन्>> (प०उ० २.२.) — कोषिता। कोषितुम्। कुष्ठम्। काशिता। काशितुम्। काष्ठम्। सि — <<प्लुषिशुषिकुषिभ्यः क्सिः>> (प०उ० ३.१५५) — कोषिता। कोषितुम्। कुक्षिः। सु — <<क्सुश्च इषेः>> (द०उ० १.१५४) — एषिता। एषितुम्। इक्षुः। सर — <<अशेःसरन्>> (प०उ० ३.७०) — अशिता। अशितुम्। क — <<इण्भीकापाशल्यतिमर्चिभ्यः कन्>>(प०उ० ३.४३) — शलिता। शलितुम्। शल्कः। स — <<वृतृवदिहनिकमिकषियुमुचिभ्यःसः>> (द०उ० ९.२१) — वदिता। वदितुम्। वत्सः॥ तितुत्रतथेष्वग्रहादीनामिति वक्तव्यम्॥ ग्रहादयो ग्रहप्रकाराः, येषामिट् क्तिनि दृश्यते। निगृहीतिः। उपस्निहितिः। निकुचितिः। निपठितिः। कृतीत्येव — रोदिति। स्वपिति॥
एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥
एषां दशानां कृत्प्रत्ययानामिण् न। शस्त्रम्। योत्रम्। योक्त्रम्। स्तोत्रम्। तोत्त्रम्। सेत्रम्। सेक्त्रम्। मेढ्रम्। पत्त्रम्। दंष्ट्रा। नद्ध्री॥
<<तितुत्रतथसिसुसरकसेषु च>> - तितुत्रत । ति, तु, त्र, त,थ, सि, सु, सर, क , स एषां दशानां द्वन्द्वः । अत्रसरे॑त्येकम् । ति, — तन्तिः ।स्त्रिया॑मिति क्तिन् । तु- सक्तुः ।तनिगमी॑त्यादिनातु॑प्रत्ययः । त्र, — शस्त्रम्, पत्रम् ।दाम्नी॑ति त्रप्रत्ययः । त, — हस्तः । औणादिकस्तप्रत्ययः । क्तप्रत्यये तु हसितमित्येव । थ — कुष्टम् । औणादिकः क्थप्रत्ययः । सि — कुक्षिः । कुषेरौणादिकः क्सिप्रत्ययः । सु — इक्षुः । इषेरौणादिकः क्सुप्रत्ययः । सर — अक्षरम् । अशेः सरन् । कृ शल्कः । शलेः कः । स — वत्सः ।वदेः सः॑ । मेढ्रमिति । 'मिह सेचने' त्रः । ढत्वध्तवष्टुत्वलोपाः । दंष्ट्रेति । दंशधातोस्त्रः । क्ङित्प्रत्ययाऽभावान्नलोपो न । सूत्रे दशेति शपा नर्देशात्दंशसञ्जे॑ति नलोपः । केचित्तु देशेत्यकार उच्चारणार्थः । नलोपनिर्देशात्क्वचिदन्यस्मिन्नपि प्रत्यये अक्ङित्यपि नलोप इति 'दशन दन्ताः' इत्याहुः । नद्ध्रीति । नह्रते अनयेति विग्रहः । चर्मरज्जुः । 'नह बन्धने' त्रः । 'नहो धः'झषस्तथो॑रिति तस्य धः । षित्त्वाङीष् ।
क्तिन्क्तिचोः सामान्येन ग्रहणमिति । रोदितीत्यस्य तिप एकानबचन्धकस्याप्यग्रहणम् कृति इत्यनुवृतेः । दीप्तिरिति । क्तिन्नाबादिभ्यश्चः इति क्तिन् । औणादिकस्यैवेति । एतच्च भूयोभिरौणादिकैः साहचर्याल्लभ्यते । ततुत्रेष्विति । अस्मिन् सूत्र इत्यर्थः । अग्रहादीनामिति । ग्रहदिव्यतिरिक्तानां धातूनां सम्बन्धिषु तितुत्रादिषु प्रतिषेध इत्यर्थः । आदिशब्दः प्रकार इत्याह - ग्रहप्रकारा इति । कः पुनः प्रकारः इत्यह - येषामिति । निकृचितिरिति । कुञ्चेः पूर्ववत् क्तिन्, उपधालोपः, कुच शब्दकरणे इत्यतस्माद्वा क्तिन् ॥