योऽचि

7-2-89 यह् अचि आः विभक्तौ युष्मदस्मदोः अनादेशे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अजादौ विभक्तावनादेशे युष्मदस्मदोर्यकारादेशो भवति। त्वया। मया। त्वयि। मयि। युवयोः। आवयोः। अचीति किम्? युवाभ्याम्। आवाभ्याम्। <<युष्मदस्मदोरनादेशे>> ७.२.८६ इत्यत्र यदि हलि ७.२.८५ इत्यनुवर्तते शक्यमकर्तुमचीत्येतत्। तत् क्रियते विस्पष्टार्थम्। अनादेश इत्येव — त्वद् गच्छति। मद् गच्छति॥

Siddhanta Kaumudi

Up

अनयोर्यकारादेशः स्यादनादेशेऽजादो परे । त्वया । मया ॥

Laghu Siddhanta Kaumudi

Up

अनयोर्यकारादेशः स्यादनादेशेऽजादौ परतः। त्वया। मया॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<योऽचि>> - योऽचि ।युष्मदस्मदोरनादेशे॑ इत्यनुवर्तते । 'अष्टन आ विभक्तौ' इत्यतोविभक्ता॑विति चानुवर्तते ।अची॑ति विभक्तिविशेषणं । तदादि विधिस्तदाह — अनयोरिति । युष्मदस्मदोरन्त्यस्येत्यर्थः । अचि किम् , युवाभ्याम् । अनादेशे किम् , त्वत्, मत् । 'पञ्चम्या अत्' इत्यदादेशे सति न यत्वम् ।युष्मद् आ, अस्मद् आ इत्यत्र 'त्वमावेकवचने' इति मपर्यन्तस्य त्वमादेशयोर्दकारस्य यत्वे पररूपे च रूपमिति भावः ।

Padamanjari

Up

शक्ययमकर्तुमचीत्येतदिति । कथमनादिष्टायां विभक्तौ विधीयमानं यत्वमुत्सर्गः, तत्रैव हलादावात्वमपवादः । त्वत्, मदिति । एकवचनस्य चेति ङ्सेरदादेशः ॥