प्रथमायाश्च द्विवचने भाषायाम्

7-2-88 प्रथमायाः च द्विवचने भाषायाम् आः विभक्तौ युष्मदस्मदोः अनादेशे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोराकारादेशा भवति। युवाम्। आवाम्। प्रथमाया इति किम्? युवयोः। आवयोः। द्विवचन इति किम्? त्वम्। अहम्। यूयम्। वयम्। भाषायामिति किम्? यु॒वं वस्त्रा॑णि पीव॒सा व॑साथे (ऋ० १.१५२.१)॥

Siddhanta Kaumudi

Up

इह युष्मदस्मदोराकारोऽन्तादेशः स्यात् । औङीत्येव सुवचम् । भाषायां किम् । युवं वस्त्राणि । युवाम् । आवाम् । मपर्यन्तस्य किम् । साकच्कस्य माभूत् । युवकाम् । आवकाम् । त्वया मयेत्यत्र त्व्या म्येति माभूत् । युवकाभ्यामावकाभ्यामिति च न सिद्ध्येत् ॥

Laghu Siddhanta Kaumudi

Up

औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रथमायाश्च द्विवचने भाषायाम्>> - युव-अद्, आव-अदिति स्थिते 'शेषे लोपः' इति प्राप्ते — प्रथमायाश्च द्विवचने । 'अष्टन आ विभक्तौ' इत्यत आग्रहणमनुवर्तते ।युष्मदस्मदोरनादेशे॑ इत्यतो युष्मदस्मदोरिति च । तदाह — इहेति । भाषायां प्रथमाद्विवचने परे इत्यर्थः । बाषायामित्यस्य तु लोकिकव्यवहारे इत्यर्थः । युवाम् । आवामिति । युव अद् अम्, आव् अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयोः पररूपे ततः सवर्णदीर्घे 'अमि पूर्वः' इति भावः । औङीत्येव सुवचमिति । द्वितीयाद्विचनेऽप्यात्वस्य इष्टत्वादिति भावः । युवं वस्त्राणीति । युष्मद्-औ इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । मपर्यन्तस्य किमिति । युष्मदस्मदोः समस्तयोरेव युवावादेशयोः कृतयोरपि आत्वे पूर्वरूपे च युवामावामिति सिद्धेरिति प्रश्नः । साकच्कस्येति ।अव्यवसर्वनाम्ना॑मिति टेः प्रागकचियुष्मकद्-औ अस्मकद्-औ इति स्थितेङे प्रथमयो॑रित्यमि 'युवावौ द्विवचने' इति समस्तयोः साकच्कयोस्तन्मधय्पतितन्यायेन युवावादेशयोःप्रथमायाश्चे॑ति दकारस्य आत्वे अमि पूर्वे च युवामावामित्येव स्यात्, ककारो न श्रूयेत, तो मपर्यन्तस्येति वचनमित्यर्थः । ननु समुदायादेशत्वेऽपिओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकचि युवकामावकामिति सिध्यत्येव, अत्र साकच्कयोर्युवावादेशाप्रसक्तेरित्यस्वरसादाह — त्वया मयेति । यदि मपर्यन्तस्येति न स्यात्तदा 'त्वमावेकवचने' इति त्वमादेशौ समस्तयोः स्याताम् । ततश्च तृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयोः स्थाने त्वमादेशयोः त्व-आ, म-आ इति स्थिते 'योऽचि' इत्यकारस्य यत्वे त्व्या म्या इति स्यात् । अतोमपर्यन्तस्ये॑ति वचनम् । सति तस्मिन्मपर्यन्तस्य त्वमादेशयोः कृतयोः-त्व अद् आ, म अद् आ इति स्थिते अकारयो पररूपे दकारस्य यत्वे च त्वया मया इति सिध्यतीत्यर्थः । ननुयोऽची॑ति सूत्रस्थाने 'अच्ये' इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्त्यस्य एकारः स्यादिति तदर्थः । तथाच त्वमयोः समस्तादेशत्वेऽपि तदन्त्यस्याकारस्य एत्त्वे अयादेशे च कृते त्वया मयेति सिध्यतीत्यस्वसादाह — युवकाभ्यामावकाभ्यामिति च न सिध्येदिति । 'असति मपर्यन्तवचने' इति शेषः ।ओकारसकारे॑त्यादिवचनेन भ्यामि टेः प्रागकचि तन्मध्यपतितन्यायेन साकच्कयोः स्थाने युवावादेशयोः युवाभ्यावावाभ्यामित्येव स्यात् । ककारो न श्रूयेत । युष्मकद् अस्मकद् इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तुयुष्मदस्मदोरनादेशे॑ इत्यात्वे युवकाभ्यामावकाभ्यामिति निर्बाधमित्यर्थः ।

Padamanjari

Up

युवयोरिति । ननु च योऽचि इति यत्वमत्र बाधकं भविष्यति प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो बाधकः स्यात् । अथ तस्य वचनाद्वाधः यत्वस्यापि बाधः स्यात् । पुरस्तादपवादन्यायेन वा यत्वस्यैव बाधः स्यात् ॥