द्वितीयायां च

7-2-87 द्वितीयायां च आः विभक्तौ युष्मदस्मदोः अनादेशे

Kashika

Up

index: 7.2.87 sutra: द्वितीयायां च


द्वितीयायां च परतः युष्मदस्मदोः आकारादेशो भवति। त्वाम्। माम्। युवाम्। आवाम्। युष्मान्। अस्मान्। आदेशार्थं वचनम्।

Siddhanta Kaumudi

Up

index: 7.2.87 sutra: द्वितीयायां च


युष्मदस्मदोराकारः स्यात् । त्वाम् । माम् । युवाम् । आवाम् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.87 sutra: द्वितीयायां च


अनयोरात्स्यात्। त्वाम्। माम्॥

Balamanorama

Up

index: 7.2.87 sutra: द्वितीयायां च


द्वितीयायां च - त्व अद् अम्, म अद् अम् इति स्थिते- । द्वितीयायां च । शेषपूरणेन सूत्रं व्याचष्टे — युष्मदस्मदोरिति ।युष्मदस्मदोरनादेशे॑ इत्यतस्तदनुवृत्तेरिति भावः । आकार इति । 'अष्टन आ विभक्तौ' इत्यतस्तदनुवृत्तेरिति भावः । तथाच द्वितीयाविभक्तौ परतो युष्मदस्मदोराकारः स्यादिति फलति ।अलोऽन्त्यस्ये॑ति दकारस्य भवति । त्व अ आ अम्, म अ आ अमिति स्थिते पररूपे, सवर्णदीर्घे, अमि पूर्वरूपे च परिनिष्ठितं रूपमाह — त्वां मामिति । युवाम् । आवामिति । पूर्ववत् ।द्वितीयायां चे॑त्यात्वमिति विशेषः । प्रथमायाश्चे॑त्यस्याऽत्राप्रवृत्तेः ।

Padamanjari

Up

index: 7.2.87 sutra: द्वितीयायां च


उदाहरणेषु णेó प्रथमयोरम् इति विभक्तेरम्भावः ॥