ईडजनोर्ध्वे च

7-2-78 ईडजनोः ध्वे च वलादेः सार्वधातुके से

Kashika

Up

index: 7.2.78 sutra: ईडजनोर्ध्वे च


ईड जन इत्येताभ्यामुत्तरस्य ध्वे इत्येतस्य, स्ये इत्येतस्य च सर्वधातुकस्य इडागमो भवति। ईडिध्वे। ईडिध्वम्। ईडिषे। ईडिष्व। जनिध्वे। जनिध्वम्। जनिषे। जनिष्व। जनी प्रादुर्भावे इत्यस्य छान्दसत्वात् श्यनो लुकुपधालोपाभावश्च। जन जनने इत्यस्य अपि श्लुविकरणस्य ग्रहणमत्र इष्यते। तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वम् इति च भवति। ध्वेशब्दे ईशेरपि इडागम इष्यते ईशिध्वे ईशिध्वम् इति। तदर्थं केचितीडिजनोः स्ध्वे चेति सूत्रं पठन्ति। तत्र सकारादेः सेशब्दस्य सूत्र एव उपादानाच् चशब्दो भिन्नक्रमः ईशेरनुकर्षणार्थो विज्ञायते। ईशीडिजनां सेध्वयोः इत्येकम् एव सूत्रं न पठितम्? विचित्रा हि सूत्रस्य कृतिः पणिनेः इति। ध्वे इति कृतटेरेत्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा। लोटि पुनरेकदेशविकृतस्य अनन्यत्वात् भवितव्यमिटा।

Siddhanta Kaumudi

Up

index: 7.2.78 sutra: ईडजनोर्ध्वे च


ईशीड्जनां से ध्वे शब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागोवैचित्र्यार्थः । ईडिषे । ईडिध्वे ॥ [(परिभाषा - ) एकदेशविकृतस्यानन्यत्वात्] । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् ।{$ {!1020 ईश!} ऐश्वर्ये$} । ईष्टे । ईशिषे । ईशिध्वे ।{$ {!1021 आस!} उपवेशने$} । आस्ते । दयायासश्च <{SK2325}> । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट ।{$ {!1022 आङः!} शासु इच्छायाम्$} । आशास्ते । आशासाते । आङ्पूर्वत्वं । प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् ।{$ {!1023 वस!} आच्छादने$} । वस्ते । वस्से । वध्वे । ववसे । वसिता ।{$ {!1024 कसि!} गतिशासनयोः$} । कंस्ते । कंसाते । कंसते । अयमनिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे ।{$ {!1025 णिसि!} चुम्बने$} । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम ।{$ {!1026 णिजि!} शुद्धौ$} । निङ्क्ते । निङ्क्षे । निञ्जिता ।{$ {!1027 शिजि!} अव्यक्ते शब्दे$} । शिङ्क्ते ।{$ {!1028 पिजि!} वर्णे$} । संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिङ्क्ते । पृजीत्येके । पृङ्क्त ।{$ {!1029 वृजी!} वर्जने$} । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदित् इत्यन्ये । वृङ्क्ते ।{$ {!1030 पृची!} संपर्चने$} । पृक्ते । {$ {!1031 षूङ्!} प्राणिगर्भविमोचने$} । सूते । सुषुवे । सुषुविषे । सोता । सविता । भूसुवोः-<{SK2224}> इति गुणनिषेधः सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट ।{$ {!1032 शीङ्!} स्वप्ने$} ॥

Balamanorama

Up

index: 7.2.78 sutra: ईडजनोर्ध्वे च


ईडजनोर्ध्वे च - ईडजनोर्ध्वे च ।इडत्यर्ती॑त्यत इडिति, 'रुदादिभ्यः' इत्यतः सार्वदातुक इति चानुवर्तते । से ध्वे इति लुप्तषष्ठीके इत्यभिप्रेत्य सूत्रद्वयं व्याख्याने तु ईशो ध्वेशब्दे परे न स्यात्, ईडजनोः सशब्दे परे न स्यादिति भावः । ननु तर्हिईशीडजनां सेध्वयो॑रित्येकमेव सूत्रं कुतोन कृतमित्यत आह — योगविभागो वैचित्र्यार्थं इति । 'से' इत्यस्य उत्तरत्रानुवृत्तिः, 'ध्वे' इत्यस्य पूर्वत्रापकर्ष इति वैचित्र्यद्योतनार्थ इत्यर्थः । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वादिति भावः । ईडिषे इति । इडे ईड्वहे ईड्महे । लिटि तु ईडाचक्रे इत्यादि । ईडिता । ईडिष्यते । ईडाम् । नतु ईडिष्वेत्यत्र कथमिट्, सेशब्दाऽभावात् । तत्राह — एकदेशेति । एकदेशविकृतत्वात्खशब्दस्य इटि ईडिध्व इति रूपमित्यर्थः । ननु तर्हि ईड्ढ्वमित्यत्र कथं नेट्, ध्वस्वरूपापेक्षयाध्व॑मित्यस्य एकदेशविकृतत्वादित्यत आह — विकृतीति । प्रकृतिग्रहणे तदेकदेशविकृतस्य ग्रहणम्, न तु विकृतिग्रहणे तदेकदेशविकृताया अपि प्रकृतेग्र्रहणम् ।पुरुषमानये॑त्युक्ते हि अन्धोऽनन्धो वा पुरु, आनीयते । 'अन्धमानये' त्यत्र तु अन्ध एवानीयते न त्वनन्धः । तथा च ध्वम एत्वे कृते ध्वेशब्दः, तेन च विकृतेन ध्वमित्यस्य तत्प्रकृतिभूतस्य न ग्रहणमिति नेडिति भावः । इडै ईडावहै ईडामहै । ऐड ऐडाताम् ऐडत । ऐडाः ऐडाथाम् ऐड्ढ्वम् । ऐडि ऐड्वहि ऐड्महि । ईडीत । ईडिषीष्ट । ऐडिष्ट । ऐडिष्यत । ईशधातुरीडिवत् । ईष्टे इत्यादि । शस्य व्रश्चादिना षत्वे ष्टुत्वमिति विशेषः । आस उपवेशने । आस्ते इति । आध्यमिति ।धि चे॑त सलोपः । आसै आसावहै आसामहै । आस्त, आसाताम्, आसत । आस्थाः, आसाथाम्, आध्वम् । आसि आस्वहि, आस्महि । आसीत् आसीयाताम् । आसिषीष्ट आसिषीयास्ताम् । आसिष्टेति । आसिषातामित्यादि । आसिष्यत । आङः शासु । आङः परः शासधातुरिच्छायामित्यर्थः । नमोवाकमिति । वचेर्घञि वाकः । नमश्शब्दस्य वचनं कुर्महे इत्यर्थः । धातूनामनेकार्थत्वात् । आसिवद्रूपाणि । वस आच्छादने इति । परिधाने इत्यर्थः । वध्वे इति ।धि चे॑ति सलोपः । ववसे इति । वादित्वादेत्त्वाभ्यासलोपौ नेति भावः । वसितेति । अनिट्सु शब्विकरणस्यैव वसेग्र्रहणमिति भावः । वसिष्यते । वस्ताम् । अवस्त । वसीत । वसिषीष्ट । अवसिष्ट । अवसिष्यत । कसि सि गतीति । वसधातुवत् । इदित्त्वान्नुमिति विशेषः । तालव्यान्त इति । तालव्योष्मान्त इत्यर्थः । कष्टे इति ।व्रश्चे॑ति शस्य षः, ष्टुत्वम् । कक्षे इति । शस्य षः, षस्यषढो॑रिति कः, षत्वम् । कड्वे इति । शस्य षः, तस्य जश्त्वेन डः, धस्य ष्टुत्वेन ढः । णिसि चुम्बने इति । णोपदेशोऽयम् । नुमिनश्चे॑त्यनुस्वारः । निंस्ते इत्यादि । निंस्से इति । नुमोऽनुस्वारः । थासः सेभावः । दन्त्यान्तोऽयमिति । दन्त्योष्मान्तोऽयमित्यर्थः । बभ्रामेति ।नुम्विसर्जनीयशव्र्यवायेऽपी॑ति सूत्रे वृत्त्यादौ दन्त्योष्मान्तत्वोक्तेरिति भावः । णिजि शुद्धाविति । णोपदेशोऽयम् । अनिट्सु इरितएव ग्रहणादयं सेट् । निङ्क्ते इति । नुमि निन्ज् ते इति स्थिते जस्य कुत्वेन गः, तस्य चर्त्वेन कः, नस्य अनुस्वारे परसवर्णो ङकारः । निञ्जाते । निङ्क्षे निञ्जाथे निङ्ग्ध्वे । निञ्जे निञ्ज्वहे निञ्ज्महे । लिटि संयोगात्परत्वात्कित्त्वाऽभावान्नलोपो न । निनिञ्जे निनिञ्जाते इत्यादि । निञ्जिता । निञ्जिष्यते । निङ्क्ताम् । अनिङ्क्तः । निञ्जीत । निञ्जिषीष्ट । अनिञ्जिष्ट । अनिञ्जिष्यत । शिजिपिजी अप्येवम् । पृजि इत्येके इति । ऋदुपधोऽयम् । वृजीधातुरृदुपध ईदित्, अतो नुम् नेति भावः । पृची संपर्चने इति । ऋदुपधोऽयम् । पपृचे इत्यादि । ईरादयः पृच्यन्ता अनुदात्तेतो गताः । षूङ्धातुः षोपदेशः,सेट् । ङित्त्वात्तङ् । सूते इति । सुवाते सुवते ।सूषे सुवाथे सूध्वे । सुवे सूवहे सूमहे । सुषुविषे इति ।स्वरती॑तीड्विकल्पं बाधित्वाश्र्युकः किती॑ति निषेधे प्राप्ते, क्रादिनियमान्नित्यमिट् ।स्वरतिसूती॑ति इड्विकल्पं मत्वा आह — सोता सवितेति । तिङस्तासा व्यवधानात्भूसुवो॑रिति न गुणनिषेध इति भावः । सोष्यते सविष्यते । सूताम् । सुवाताम् । सुवताम् । सूष्व सूध्वम् । आटः पित्त्वाद्गुणे प्राप्ते आह — भूसुवोरिति । सुवै इति । सुवावहै सुवामहै । असूत । सुवीत । सविषीष्ट सोषीष्ट इत्यादि स्पष्टम् । शीङ् स्वप्ने । सेट् । ङित्त्वात्तङ् ।

Padamanjari

Up

index: 7.2.78 sutra: ईडजनोर्ध्वे च


ईड स्तुतौ अदादिः । छान्दसत्वाच्छयनो लुगिति । भाषायां तु जायसे - इत्यत्र नित्यत्वात् श्यनि कृते तेन व्यवधानादिडभावः । जन जनने इत्यस्यापीति । नन्वसौ परस्मैपदी तत्राह - तस्य कमव्यतिहार इति । यदि तर्हि तस्याप्यात्मनेपदं सम्भवति, तस्यैव ग्रहणं प्राप्नोति, निरनुवन्धकत्वात् ईडिना साहचर्यादात्मनेपदिनोऽपि ग्रहणं भविष्यति । तदर्थे केचिदिति । ये त्वेवं न पठन्ति, ते चकारेण कृत्स्नमेव पूर्वसूत्रमनुवर्तयन्ति । सकारादेरिति । स् एइति सप्तम्या लुका निर्द्देशातदादिविधिः । यदि तर्हि ईशेरपि ध्वे शब्दे इडागतो भवति, योगाविभागो न कर्तव्यः, इडीशजनां सेध्वयोः इति वक्तव्यम्, एवं हि पृथग्विभक्तिर्नोच्चारयितव्या भवति, चकारश्च न कर्तव्यः अत आह - ईशीड्जनां सेध्वयोरिति । लङ् ध्विमित्यस्य न भवतीति । लोट।ल्पि तर्हि ध्वमित्यस्य न प्राप्नोति तत्राह - लोटि पुनरिति ॥