7-2-77 ईशः से वलादेः सार्वधातुके
ईश उत्तरस्य स इत्येतस्य सार्वधातुकस्येडागमो भवति। ईशिषे। ईशिष्व॥
<<ईशः से>> - ईशः से ।
ईश ऐश्वर्ये आदादिकः । से इत्यविभक्तिको निर्द्देशः । इशिष्वेति । सवाभ्यां वामौ । एकदेशविकृतस्यानन्यत्वात् सेशब्द एवायम् ॥