7-2-75 किरः च पञ्चभ्यः आर्धधातुकस्य इट् वलादेः सनि
index: 7.2.75 sutra: किरश्च पञ्चभ्यः
किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति। कृ̄ चिकरिषति। गृ̄ जिगरिषति। दृङ् दिदरिषते। धृङ् दिधरिषते। प्रच्च्ः पित्रच्छिषति। पञ्चभ्यः इति किम्? सिसृक्षति। किरतिगिरत्योः इट् सनि वा 7.2.41 इति विकल्पः प्राप्तः, वृ̄तो वा 7.2.35 इति च। अस्येटो दीर्घत्वं न इच्छन्ति।
index: 7.2.75 sutra: किरश्च पञ्चभ्यः
कॄ गॄ दृङ् धृङ् प्रच्छ् एभ्यः सन इट् स्यात् ॥ पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अत्रेटो दीर्घो नेष्टः ॥ दिदरिषते । दिधरिषते । कथमुद्दिधीर्षुरिति । भौवादिकयोर्धृङ्धृञोरिति गृहाण ॥
index: 7.2.75 sutra: किरश्च पञ्चभ्यः
किरश्च पञ्चभ्यः - किरश्च पञ्चभ्यः । किर इति पञ्चमी । किरादिभ्य इति विवक्षितम् । तुदादौकृ विक्षेपे॑,गृ निगरणे॑,दृङ् आदरणे॑,धृङ् अवस्थाने॑,प्रच्छ ज्ञीप्साया॑मिति स्थिताः । तदाह — कृ गृ इत्यादिना । सन इडिति ।स्मिपूङ्ञ्जवशां सनी॑त्यतः,इडत्त्यर्ती॑त्यतश्च तदनुवृत्तेरिति भावः । किरतिगिरत्योःइट्सनि वे॑ति विकल्पे, अन्येषां च 'एकाच' इति निषेधे प्राप्तेऽयमिड्विधिः । शब्देन्दुशेखरे तुसनि ग्रहेटति 'एकाच' इति च निषेधे प्राप्ते वचनमित्युक्तम् । पिपृच्छषतीति । सनः कित्त्वात्ग्रहिज्ये॑ति संप्रसारणम् । चिकरिषतीति ।अचि विभाषे॑ति लत्वविकल्प इति भावः ।इट् सनि वे॑त्यस्यायमपवादः । चिकरिषति, जिगरिषतीत्यत्रवृतो वे॑ति दीर्घमाशङ्क्याह — अत्रेटो दीर्घो नेष्ट इति । वार्तिकमिदं वृत्तौ स्थितम् । भाष्ये तु न दृश्यते । दिदरिषते दिधरिषते इति । दृङो धृङश्च सनि इटि रूपम् । 'पूर्ववत्सनः' इत्यात्मनेपदम् । कथमिति ।उद्दिधीर्षुटरिति कथमित्यन्वयः । किरादित्वेन इट्प्रसङ्गादिति भावः । भौवादिकयोरिति ।धृङ् अवस्थानेट, 'धृञ् धारणे' इत्यनयोर्भौवादिकयोः सनि किरादित्वाऽभावेअज्झनगमां सनी॑ति दीर्घेऋत इद्धातो॑रिति इत्त्वे, रपरत्वे,हलि चे॑ति दीर्घे, षत्वे, उद्दिधीर्ष इत्स्मात्, 'सनाशंसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण- जानीहीति शङ्ककं प्रत्युत्तरम् ।
index: 7.2.75 sutra: किरश्च पञ्चभ्यः
किरः इति व्यत्येनैकवचनम् । पञ्चभ्यः इति बहुवचनादाद्यर्थावगतिः । कृगृदृङ्धृङ्पृच्छतयः तुदादिषु किरादयः । पिपृच्छिवतीति । रुदविद इत्यादिना सनः कित्वम् । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । किरतिगिरत्येरिति । शेषाणां त्वनुदातत्वात्प्रतिषेधः । दीर्घत्वं नेच्छन्तीति । इष्टिरेवेयम् ॥