7-2-73 यमरमनमातां सक् च आर्धधातुकस्य इट् वलादेः सिचि परस्मैपदेषु
यम रम नम इत्येतेषामङ्गानामाकारान्तानां च सगागमो भवति परस्मैपदे सिचि, इडागमश्च। यम् — अयंसीत्, अयंसिष्टाम्, अयंसिषुः। रम् — व्यरंसीत्, व्यरंसिष्टाम् व्यरंसिषुः। नम् — अनंसीत्, अनंसिष्टाम्, अनंसिषुः। आकारान्तानाम् — आयासीत्, अयासिष्टाम्, अयासिषुः यमादीनां हलन्तलक्षणा वृद्धिः ७.२.३ प्राप्ता, सा <<नेटि>> ७.२.४ इति प्रतिषिध्यते। परस्मैपदेष्वित्येव — आयंस्त। अरंस्त। अनंस्त॥
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः ।{$ {!903 ग्लै!} {!904 म्लै!} हर्षक्षये$} । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अग्लासीत्। अग्लास्यत्॥ {$ {! 18 ह्वृ !} कौटिल्ये $} (धातुपाठे <{01.1080}>) ॥ ह्वरति॥
<<यमरमनमातां सक् च>> - सिचो लुगभावपक्षे आह — यमरम । यम, रम, नम, आत्-एषां द्वन्द्वात्षष्ठीबहुवचनम् ।आ॑दित्यनेन आदन्तं गृह्रते । तदाह — एषां सगिति । सकि ककार इत् । अकार उच्चारणार्थः । कित्त्वादन्तावयवः । चकारेणइडत्त्यर्ती॑त्यत इडिति, 'स्तुसुधूञ्भ्यः' इत्यतः परस्मैपदेष्विति चानुकृष्यते ।अञ्जेः सिची॑त्यतः सिचीति च ।तच्च षष्ठ्या विपरिणम्यते । तदाह — सिच इट् चेति । अधासीदिति । धातोः सगागमः । सिच इट्, ईट् । 'इट ईटि' इति सिज्लोपः । अधासिष्टामिति । अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः ।सस्य षत्वे तकारस्य ष्टुत्वेन टः । आथासिषुरिति । अधासीः अधासिष्टमधासिष्ट । अधासिषमधासिष्व अधासिष्म । यद्यपि अधासीदित्यत्र सगिटोर्विधिव्र्यर्थ एव, तथापि अधासिष्टामित्याद्यर्थमातः सगिड्विधानम् । यमादीनं तु अयंसीदित्यादौ हलन्तलक्षणवृद्धेरभावार्थम्, अयंसिष्टामित्याद्यर्थं च ।तदेतत्तत्तद्धातुषु स्पष्टीभविष्यति । अधास्यत् । ग्लै म्लै । धातुक्षय इति । बलक्षय इत्यर्थः । अनिटाविमौ । ग्लायतीति । शपि आयादेशः । शिद्विषयत्वादात्त्वं न । जग्लाविति । णलि आत्त्वे 'आत णौ णल' इति औभावे वृद्धिरिति बावः । अतुसादौ द्वित्वे कृते आतो लोपः । जग्लतुः जग्लुः । भारद्वाजनियमात्थलि वेडित्याह — जग्लिथ जग्लाथेति । इट्पक्षे आल्लोपः । जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् ।
व्यरंसीदिति । व्याङ्परिभ्यो रमः इति परस्मैपदम् । युक्तमत्र द्विवचनबहुवचनयोरुदाहरणम्, तत्र हि संगिटोः सतोरस्ति विशेषः, एकवचने त्क्युक्तम्, विशेषाभावात् तत्राह - यमादीनामिति । ह्म्यन्तक्षण इत्यत्रापीटीति वर्तते, अपासीदित्येततु प्रक्रमाभेदायोदाहृतम्, नत्वत्र विशेषोऽस्ति । ननु चात्रापि स्वरे विशेषोऽस्ति - मा हि मासीदिति, इट।ल्सत्याद्यौदातं पदं स्यात्, सति तु तस्य सिज्भक्तत्वाच्चित्स्वरेणोदातत्वे एकादेश उदातेनोदातः इत्यन्तोदातं पदं भवति, तत्र आदिः सिचोऽन्यतरस्याम् इति पक्षे आद्यौदातत्वम्, पक्षेऽन्तोदातत्वम् नैषोऽस्ति विशेषः, अनिटः सिचः पक्षे उपसंख्यानम् इति वचनान्म हि कार्षमित्यत्र यथा पक्षे आद्यौदातत्वं पक्षे चान्तोदातत्वं च भवति, एवमत्रापि भविष्यति । आयंस्तेति । समुदाङ्भ्यो यमोऽग्रन्थे इत्यात्मनेपदम् । अनंस्तेत्यत्र कर्मकर्तरि न दुहस्तनुनमां यक्चिणौ इति चिणः प्रतिषेधः ॥