स्तुसुधूञ्भ्यः परस्मैपदेषु

7-2-72 स्तुसुधूञ्भ्यः परस्मैपदेषु आर्धधातुकस्य इट् वलादेः सिचि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्तु सु धूञ् इत्येतेभ्यः सिचि परस्मैपदे परत इडागमो भवति। अस्तावीत्। असावीत्। अधावीत्। परस्मैपदेष्विति किम्? अस्तोष्ट। असोष्ट। अधोष्ट, अधविष्ट॥

Siddhanta Kaumudi

Up

एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् ।{$ {!942 श्रु!} श्रवणे$} ॥

Laghu Siddhanta Kaumudi

Up

एभ्यस्सिच इट् स्यात्परस्मैपदेषु। असावीत्, असोष्ट॥ {$ {! 2 चिञ् !} चयने $} (धातुपाठे <{05.0005}>) ॥ चिनोति, चिनुते॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स्तुसुधूञ्भ्यः परस्मैपदेषु>> - लुङि असौषीदिति प्राप्ते — स्तुसुधूञ्भ्यः ।इडत्त्यर्ती॑त्यत इडित्यनुवर्तते ।अञ्जेः सिची॑त्यतः सिचीत्यनुवृत्तं षष्ठआ विपरिणम्यते । तदाह — एभ्यः सिचेति । असावीदिति । सिचि वृद्दौइट ईटी॑ति सिज्लोपः । पूर्वोत्तराभ्यामिति । स्तुञ्धूञ्भ्यामिभ्यर्थः । सुनोतिरिति । 'षुञ् अभिषवे' इति श्नुविकरणस्येत्यर्थः । असौषीदिति । इडभावेसिचि वृद्धि॑रिति भावः । असोष्यत् । श्रु श्रवणे इति । उदन्तोऽयमनिट् ।

Padamanjari

Up