7-2-71 अञ्जेः सिचि आर्धधातुकस्य इट् वलादेः
अञ्जेः सिचीडागमो भवति। आञ्जीत्, आञ्जिष्टाम्, आञ्जिषुः। सिचीति किम्? अङ्क्ता, अञ्जिता। ऊदित्त्वाद् विभाषा ७.२.४४ भवति॥
अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् ।{$ {!1459 तञ्चू!} सङ्कोचने$} । तनक्ति । तङ्क्ता । तञ्चिता ।{$ {!1460 ओविजी!} भयचलनयोः$} । विनक्ति । विङ्क्तः । विज इट् <{SK2536}> इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ।{$ {!1461 वृजी!} वर्जने$} । वृणक्ति । वर्जिता ।{$ {!1462 पृची!} संपर्के$} । पृणक्ति । पपर्च ॥
अञ्जेः सिचो नित्यमिट् स्यात्। आञ्जीत्॥ {$ {! 15 तञ्चू !} संकोचने $} <{07.0022}> ॥ तनक्ति। तञ्चिता, तङ्क्ता। ॥ {$ {! 16 ओविजी !} भयचलनयोः $} <{07.0023}> ॥ विनक्ति॥ विङ्क्तः। विज इडिति ङित्त्वम्। विविजिथ। विजिता। अविनक्। अविजीत्॥ {$ {! 17 शिषॢ !} विशेषणे $} <{07.0014}> ॥ शिनष्टि। शिंष्टः। शिंषन्ति। शिनक्षि। शिशेष। शिशेषिथ। शेष्टा। शेक्ष्यति। हेर्धिः। शिण्ड्ढि। शिनषाणि। अशिनट्। शिंष्यात्। शिष्यात्। अशिषत्॥ एवं {$ {! 18 पिषॢ !} संचूर्णने $} <{07.0015}> ॥ {$ {! 19 भञ्जो !} आमर्दने $} <{07.0016}> ॥ श्नान्नलोपः। भनक्ति। बभञ्जिथ, बभङ्क्थ। भङ्क्ता। भङ्ग्धि। अभाङ्क्षीत्॥ {$ {! 20 भुज !} पालनाभ्यवहारयोः $} <{07.0017}> ॥ भुनक्ति। भोक्ता। भोक्ष्यति। अभुनक्॥
<<अञ्जेः सिचि>> - अञ्जेः सिचि । 'इडत्त्यर्ती' त्यत इडित्यनुवर्तते । ऊदित्तवादेव सिद्धे नित्यार्थमिदम् । तदाह — अञ्जेरित्यादिना । तञ्चू सङ्कोचने । नोपधः कृतपरसवर्णनिर्देशः । अञ्जूवद्रूपाणि यथायोग्यमूह्रानि । ओ विजीति । ओकार इत् । अनिट्सु इरितो ग्रहणादयं सेट् । रुधादयः ॥ इति बालमनोरमायाम् रुधादयः॥अथ समासान्तप्रकरणम् । — — — — — — — -