7-2-70 ऋद्धनोः स्ये आर्धधातुकस्य इट् वलादेः
ऋकारान्तानां धातूनां हन्तेश्च स्य इडागमो भवति। करिष्यति। हरिष्यति। हनिष्यति। स्वरतेर्वेट्त्वाद् ऋद्धनोः स्य इत्येतद् भवति विप्रतिषेधेन। स्वरिष्यति। तपरकरणं विस्पष्टार्थम्॥
ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥
ऋतो हन्तेश्च स्यस्येट् । ह्वरिष्यति । ह्वरतु । अह्वरत् । ह्वरेत् ॥
<<ऋद्धनोः स्ये>> - लृटि स्ये इण्निषेधे प्राप्ते — ऋद्धनोः । ऋत् हन् अनयोद्र्वन्द्वात्पञ्चम्यर्ते षष्ठी ।स्ये॑षष्ठर्थे सप्तमी ।आर्धधातुस्ये॑डित्यत इडित्यनुवर्तते । तदाह — ऋत इत्यादिना । 'एकाच' इतीणनिषेधस्यापवादः । भरिष्यतीति । भरिष्यते । भरतु भरताम् । अभरत् अभरत । भरेत् भरेत ।
स्वरत्यादिसूत्रे यदुक्तम् - स्वरतेरेतस्माद्विकल्पादित्यादि, तदेव स्मारयति - स्वरतेर्वेट्त्वादिति । वाविकल्पित इड।ल्स्य स वेट्, तस्य भावो वेट्त्वम्, स पुनर्विकल्पितेट्सम्बन्धः ॥