विभाषा गमहनविदविशाम्

7-2-68 विभाषा गमहनविदविशाम् आर्धधातुकस्य इट् वलादेः वसु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम — जग्मिवान्, जगन्वान्। <<मो नो धातोः>> ८.२.६४, <<म्वोश्च>> ८.२.६५ इति नकारः। हन — जघ्निवान्, जघन्वान्। विद — विविदिवान्, विविद्वान्। विश् — विविशिवान्, विविश्वान्। विशिना साहचर्यात् इह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति॥ दृशेश्चेति वक्तव्यम्॥ ददृशिवान्, ददृ॒श्वान् (ऋ० ४.३३.६)॥

Siddhanta Kaumudi

Up

एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति <{SK2981}> इतीण्निषेधः ॥<!दृशेश्च !> (वार्तिकम्) ॥ ददृशिवान् । ददृश्वान् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

जध्निवान्, जघन्वानिति । हो हन्तोर्ञ्णिन्नेषु । अभ्यासाच्चेति कुत्वम् । विशिना तौदादिकेनेति । यद्यप्यादादिकेन हन्तिना साहचर्यमस्ति, तथापि शब्दपरविप्रतिषेधाद्विशिसाहचर्यमेव व्यवस्थापकमिति भावः । ज्ञानार्थस्य त्विति । सताविचारणार्थयोस्त्वात्मनेपदित्वात् क्वसावसम्भव एवेति भावः । विविद्वानिति । वूर्वविदिट्प्रतिषेधः ॥