इडत्त्यर्तिव्ययतीनाम्

7-2-66 इट् अत्यर्तिव्ययतीनाम् आर्धधातुकस्य इट् वलादेः थलि

Kashika

Up

index: 7.2.66 sutra: इडत्त्यर्तिव्ययतीनाम्


अत्ति अर्ति व्ययति इत्येतेषां थलि इडागमो भवति। आदिथ। आरिथ। विव्ययिथ। व्येञः न व्यो लिटि 6.1.46 इति आत्वप्रतिषेधः। अत्तिव्ययत्योः ऋतो भारद्वाजस्य 7.2.63 इति नियमाद् विकल्पः। अर्त्तेरपि नित्यः प्रतिषेधः। अत्र इड्ग्रहणम् विस्पष्टार्थम्। विकल्पविधाने हि सति अत्तिव्ययतिग्रहणमनर्थकम्, प्रतिषेधविधाने च अर्तिग्रहणम् इति नित्योऽयं विधिः इड्ग्रहणमन्तरेण अपि शक्यते विज्ञातुम्।

Siddhanta Kaumudi

Up

index: 7.2.66 sutra: इडत्त्यर्तिव्ययतीनाम्


अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् ।{$ {!937 गृ!} {!938 घृ!} सेचने$} । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् ।{$ {!939 ध्वृ!} हूर्छने {!940 स्रु!} गतौ$} । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि - <{SK2312}> इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् ।{$ {!941 षु!} प्रसवैश्वर्ययोः$} । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.66 sutra: इडत्त्यर्तिव्ययतीनाम्


अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात्। आदिथ। अत्ता। अत्स्यति। अत्तु। अत्तात्। अत्ताम्। अदन्तु॥

Balamanorama

Up

index: 7.2.66 sutra: इडत्त्यर्तिव्ययतीनाम्


इडत्त्यर्तिव्ययतीनाम् - थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दिति ऋदन्तत्वाद्भारद्वाजमतेऽपि निषेधे प्राप्ते — इडत्त्यर्ति । पञ्चम्यर्थे षष्ठी ।अचस्तास्व॑दित्यत स्थलीत्यनुवर्तते ।विभाषा सृजिदृशो॑रिति पूर्वसूत्रद्विभाषाग्रहणमस्वरितत्वान्नानुवर्तते । तदाह — अद् ऋ इत्यादिना ।आर्धधातुकस्ये॑डित्यनुवृत्तौ पुनरिड्ग्रहणं तुन वृद्ब्यश्चतुभ्र्यः॑ इत्यतो नेत्यनुवृत्तिनिवृत्तये इत्याहुः । आरिथेति । आरथुः । आरः । आर आरिव आरिम । क्रादिनियमादिट् । अरिष्यतीति ।ऋद्धनो॑रिति इट् । ऋच्छतु । आच्र्छत् । अर्यादिति ।गुणोऽर्ती॑ति गुणे रपरत्वमिति भावः । आर्षीदिति । सिचि वृद्धिः ।सर्तिशास्त्यर्तिभ्यश्चे॑ति अङ् तु न, ततर्भौवादिकस्य ऋधातोर्न ग्रहममित्यनुपदमेवोक्तेरिति भावः । आरिष्यत् । 'ऋद्धनोः स्ये' इति इट् । गृ घृ । अनिटौ । गरतीति । जगार । असंयोगादित्वात्ऋतश्चे॑ति गुणो न । जग्रतुः जग्रुः । क्रादिनियमेन इटि प्राप्तेअचस्तास्व॑दिति नेट् । ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट् । तदाह — जगर्थेति । जग्रथुः जग्र । जगार — जगर.जग्रिवेति । क्रादिनियमादिट् । जग्रिम । गर्ता । गरिष्यति ।ऋद्धनो॑रितीट् । गरतु । अगरत् । गरेत् । रिङिति । आशीर्लिङि असंयोगादित्वात्गुण#ओऽर्ती॑ति गुणाऽभावे 'रिङ् शयग्लिङ्क्षु' इति रिङित्यर्थः । ग्रियादिति । रीङि प्रकृते रिङ्विधेर्न दीर्घः । अगार्षीदिति । सिचि वृद्धौ रपरत्वम् । अगार्ष्टाम् । अगरिष्यत् ।ऋद्धनोः॑इति इट् । घृधातोस्तु भौवादिकस्य घृतं घर्मः घृणा इत्यत्रैव प्रयोगो नान्यत्रेतितृज्वत्क्रोष्टु॑रिति सूत्रे भाष्ये स्पष्टम् । ध्वृ इति । हूच्र्छनं कुटिलीभवनम् । ध्वरति । दध्वार ।ऋतश्चे॑ति गुणः । दध्वरतुः दध्वरुः । थलिअचस्तास्व॑दिति क्रादिनियमप्राप्त इण्न । ऋदन्तत्वाच्च भारद्वाजमतेऽपि नेट् । दध्वर्थ दध्वरथुः दध्वर । दध्वार-दध्वर दध्वरिव दध्वरिम । क्रादिनियमादिट् । ध्वर्ता ।ऋद्धनो॑रिति इट् — ध्वरिष्यति । ध्वरतु ।अध्वरत् । ध्वरेत् । आशीर्लिङिगुणोऽर्ती॑ति गुणः । ध्वर्यात् । अध्वार्षीत् । अध्वरिष्यत् । रुआउ गतौ । अनिट् । रुआवति । सुरुआआव-सुरुआव । सुरुआउवेति । क्रादित्वान्नेट् । सुरुआउमेत्यपि ज्ञेयम् । रुआओता । रुआओष्यति । रुआवतु अरुआवत । रुआवेत् । रुआऊयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — णिश्रीति चङिति ।चङी॑ति द्वित्वमित्यपि द्रष्टव्यम् । ननु असुरुआ अ त् इति स्थिते रेफादुत्तरस्य उकारस्यसार्वधातुकार्धधातुकयो॑रिति गुणस्य चङ्निमित्तस्य ङित्त्वान्निषेधेऽपि उवङपेक्षया परत्वात्तिपं निमित्तीकृत्य रेफादुकारस्य लघूपधगुणः स्यादित्यत आह लघूपधगुणादन्तरङ्गत्वादुवङिति । बहिर्भूततिबपेक्षत्वनाल्लघूपधगुणो बहिरङ्गः । अन्तर्गतचङपेक्षत्वादुवङन्तरङ्गः । अतौवङेव भवति । परादन्तरङ्गस्य बलवत्त्वादिति भावः । असुरुआउवदिति । अरुआओष्यत् । षु प्रसवेति । अत्र प्रसवशब्दस्य गर्भमोचनपरत्वभ्रमं वारयति — प्रसवोऽभ्यनुज्ञानमिति ।ॐ प्रणयेति ब्राहृआ प्रसौती॑त्यादौ तथा दर्शनादिति भावः । षोपदेशोऽयम् । शपि उवङं बाधित्वा परत्वात्सार्वधातुकयोरिति गुणः । सवति । सुषाव । अतुसादौ कित्त्वाद्गुणाऽभावे उवङ् । सुषुवतुः सुषुवुः । भारद्वाजनियमात्थलि वेट् । तदाह — सुषविथ सुषोथेति । अकित्त्वाद्गुण इति भावः । सुषुवथुः सुषुव । सुषाव-सुषव.वमयोस्तु क्रादिनियमान्नित्यमिट् । तदाह — सुषुविवेति । कित्त्वाद्गुणाऽभावे उवङ् । सोतेति । सोष्यति । सवतु । असवत् । सवेत् । सूयात् ।