7-2-65 विभाषा सृजिदृशोः आर्धधातुकस्य इट् वलादेः न थलि
सृजि दृशि इत्येतयोस्थलि विभाषेडागमो न भवति। सस्रष्ठ, ससर्जिथ। दद्रष्ठ, ददर्शिथ॥
आभ्यां थल इड्वा ॥
<<विभाषा सृजिदृशोः>> - तत्राह — विभाषा सृजि । पञ्चम्यर्थे षष्ठी ।गमेरिडित्यतत इडिति,चस्तास्व दित्यतस्थलीति चानुवर्तते । तदाह — आभ्यामिति ।
सस्नष्ठ, दद्रष्टेति । सृजिदृशोर्झल्यमकिति, पूर्ववत् षत्वम् ॥