बभूथाततन्थजगृम्भववर्थेति निगमे

7-2-64 बभूथ आततन्थ जगृभ्म ववर्थ् इति निगमे आर्धधातुकस्य इट् वलादेः थलि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये। निगमो वेदः। बभूथ — त्वं हि होता॑ प्रथ॒मो ब॒भूथ॑ (तै०सं० ३.१.४.४)। बभूविथेति भाषायाम्। आततन्थ — येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ (ऋ० ३.२२.२)। आतेनिथेति भाषायाम्। जगृभ्म — ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्त॑म् (ऋ० १०.४७.१)। जगृहिमेति भाषायाम्। ववर्थ — ववर्थ त्वं हि ज्योतिषा। ववरिथेति भाषायाम्। क्रादिसूत्रादेवास्य प्रतिषेधे सिद्धे नियमार्थं वचनम् — निगम एव न भाषायामिति॥

Siddhanta Kaumudi

Up

एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<बभूथाततन्थजगृम्भववर्थेति निगमे>> - निगमो- वेदः । तदाह — एषां वेदे इति । ननु 'कृसृभृवृ' इतिनिषेधादेव थलि ववर्थेति सिद्धे किमर्थं ववर्थग्रहणमित्यत आह — तेन भाषायां थलीडिति । निगमे एव वृणोतेस्थलि इण्निषेध इति नियमलाभादिति भावः । व्रवे व्रवाते । ववृषे । 'वृतो वा' इति मत्वाह — वरितावरीतेति ।

Padamanjari

Up