ऋतो भारद्वाजस्य

7-2-63 ऋतः भारद्वाजस्य आर्धधातुकस्य इट् वलादेः तासि थलि अनिटः नित्यम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋकारान्ताद् धातोर्भारद्वाजस्याचार्यस्य मतेन तासाविव नित्यानिटस्थलीडागमो न भवति। स्मर्ता — सस्मर्थ। ध्वर्ता — दध्वर्थ। सिद्धे सत्यारम्भो नियमार्थः। ऋत एव भारद्वाजस्य, नान्येषां धातूनाम्। ययिथ। वविथ। पेचिथ। शेकिथ। तदयमर्थात् पूर्वयोर्योगयोर्विकल्पः। तपरकरणमृृकारान्तस्य निवृत्त्यर्थम्। तथा हि सति विध्यर्थमेतत् स्यात्॥

Siddhanta Kaumudi

Up

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् । ऋदन्त ईदृङ् नित्यानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ 1 ॥ न च स्तुद्रुस्रुश्रुवामपि थलि विकल्पः शङ्कयः । अचस्तास्वत् - <{SK2294}> इति उपदेशेऽत्वतः <{SK2295}> इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । [(परिभाषा - ) अनन्तरस्य] इति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥

Laghu Siddhanta Kaumudi

Up

तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः- अजन्तोऽकारवान्वा यस्तास्यनिट् थलि वेडयम् । ऋदन्त ईदृङ्निन्तयानिट् क्राद्यन्यो लिटि सेड् भवेत् ॥ चिक्षयिथ, चिक्षेथ । चिक्षियथुः । चिक्षिय । चिक्षाय, चिक्षय । चिक्षियिव । चिक्षियिम । क्षेता । क्षेष्यति । क्षयतु । अक्षयत् । क्षयेत् ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ऋतो भारद्वाजस्य>> - ऋतो भा । तासौ नित्यमनिट इति, थलीति, नेति, इडिति चानुवर्तते । भारद्वाजस्य मते ऋदन्ताद्धातोः परस्य थलो नेडिति फलितं । ह्मञ्धृञादौअचस्तास्व॑दित्येव सिद्धम् । अतो नियमार्थमिदमित्याह — ऋदन्तादेवेति । अनृदन्तात्परस्य तु थल इट् स्यादेवेत्येवकारार्थः । तदाह — अन्यस्य स्यादेवेति । ऋदन्तभिन्नात्परस्य थल इट् स्यादेवेत्यर्थः । तथा च ऋदन्तभिन्नाद्धातोः परस्य थलो नेण्निवृत्तिरति भारद्वाजमते फलतीति न वैयथ्र्यमिति भावः । तथा च अनृदन्ताद्धातोः परस्य थलो भारद्वाजमते इट्,मतान्तरे तु अचस्तास्वदिति उपदेशेऽत्वत ति च तत्र नेडति विकल्पः फलतीति भावः । तद्यथा — पपिथ-पपाथ । पेचिथ- पपक्थ । अयमत्रेति । कृसृभृवृस्तुद्रुरुआउश्रुवो लिटी॑ति,अचस्तास्वत्थल्यनिटो नित्य॑मिति, 'उपदेशेऽत्वत' इति,ऋतो भारद्वाजस्ये॑ति च सूत्रचतुष्टयस्य विषयाणां सङ्ग्रहो वक्ष्यत इत्यर्थः । अजन्त इति । यो धातुः ऋदन्तभिन्नाऽजन्तो ह्रस्वाकारवान् वा तासौ नित्याऽनिट् नित्याऽनिडित्यर्थः ।अचस्तास्व॑दिति पाणिनिमतेऋतो भारद्वाजस्ये॑ति भारद्वाजमतेऽपि तस्य अनिट्कत्वादिति भावः । क्राद्यन्य इति । क्राद्यष्टभ्योऽन्यो धातुर्लिटि नित्यं सेडित्यर्थः । क्राद्यष्टभ्य एव परस्य लिटि नेडिति कृसृभृवृ इति सूत्रेण नियमितत्वादिति भावः । नन्वत्र क्राद्यन्य इत्युक्त्या क्रादीनामष्टानां लिटि नित्यानिट्कत्ववगतं तदनुपपन्नं, स्तुद्रुरुआउश्रुवामृदन्तभिन्नत्वेन तेभ्यस्थलि अचस्तास्वदिति निषेधस्य भारद्वाजमतेऽप्रवृत्त्या इड्विकल्पस्य दुर्वारत्वात् । नचैवं सति कृसृभृवृ इति सूत्रे स्तुद्रुरुआउश्रुग्रहणमनर्थकमिति वाच्यं, तुष्टुव तुष्टुमेत्यादौ वमादिषु क्रादिनियमप्राप्तस्य इटो निवृत्त्या चरितार्थत्वादित्याशङ्क्य निराकरोति — न चेति । कुत इत्यत आह — अचस्तास्वदिति । ऋदन्तादेव परस्य थल इण्निषेधः, अनृदन्तात्परस्य तु थल इण्निषेधो नेति भारद्वाजीयं मतम् । अयं च इण्निषेधस्य निषेधः 'अचस्त्वास्व' दिति 'उपदेशेऽत्वत' इतिच सूत्रद्वयप्राप्तस्यैव इण्निषेधस्य पक्षे निवर्तको न तुक्रादिसूत्रप्राप्तस्य इट् प्रतिषेधस्यापीत्यर्थः । कुत इत्यत आह — अनन्तरस्येति ।अचस्तास्व॑दिति 'उपदेशेऽत्वत' इतिऋतो भारद्वाजस्ये॑तिच सूत्रक्रमः । कृसृभृवृ इति सूत्रं तु ततः प्राग्बहुव्यवहितमिति भावः । किंच 'नेड्वशि कृती' त्यादिप्रतिषेधकाण्डोत्तरम्आर्धधातुकस्येड्वलादे॑ रिति विधिकाण्डारम्भसामर्थ्यादपि स्तुद्रुस्रुश्रुवामिण्निषेधो भारद्वाजनियमं बाधत इति 'नेड्वशि कृती' त्यत्र ,वस्वेकाजाद्धसा॑मित्यत्र च भाष्ये स्पष्टम् । ततश्च प्रकृते अजेस्थलि वीभावे तस्य अजन्तत्वात्तासौ नित्याऽनिट्त्त्वाच्च इड्विकल्प इति सिद्धं । तदाह -विवयिथ विवेथेति । सिबादेशस्य थलः पित्त्वादसंयोगादिति कित्त्वाऽभावाद्गुणः । इट्पक्षेऽयादेशः । आजिथेति ।वलादावार्धधातुके वेष्यते इति वीभावाऽभावपक्षे अजधातोरनुदात्तोपदेशबहिर्भूतत्वादिट् । द्वित्वम् । हलादिः शेषः ।अत आदे॑रिति दीर्घः । विव्यथुरिति । अथुसि वीभावे द्वित्वे अभ्यासह्रस्वे असंयोगादिति कित्त्वाद्गुणाऽभावे इयङपवादे 'एरनेकाच' इति यणि रूपम् । विव्येति । थस्य अकारे वीभावादि । विवाय विवयेति ।णलुत्तमो वे॑ति णित्त्वविकल्पाद्वृद्धिविकल्पः । विव्यिव विव्यिमेति ।क्राद्यन्यो लिटि सेड्भवे॑दिति नित्यमिटि यण् । वेता अजितेति । लुटि तासि वीभावविकल्पः । वेष्यति अजिष्यतीति । लृटि स्ये वीभावविकल्पः । वीयादिति । आशीर्लिङादेशस्य आर्धधातुकत्वाद्वीभावः ।

Padamanjari

Up

सस्मर्थेति । स्मृ चिन्तायाम् । दध्वर्थेति । ध्वृ हूर्छने । सिद्धे सतीत्यादि । अदन्तानां वृङ्वृञावुदातौ । तत्रापि वृङ्स्थल् न सम्भवति, आत्मनेपदित्वात् । वञस्तु ववर्थेति निपातनाद्भाषायामिटां भाव्यम् । तस्मातयोरिट्प्रतिषेधार्थं तावदेतन्नोपपद्यते । अन्येऽदन्तास्तासौ नित्यानिटः इति अचस्तास्वत् इत्यनेनैव सिद्धः प्रतिषेधः । ननु च परत्वाद् गुणे कृते रपरत्वे चानजन्तत्वान्न सिद्ध्यति, पूर्वसूत्रेणाप्यसिद्धिरेव, न ह्यकारान्ता उपदेशेऽत्वन्तः, तस्मान्नियमानुपपतिः अस्तु तर्हि दध्वर्थेत्यादौ विध्यर्थमेव । यद्येवम्, स्थायापचिप्रभृतिषु पूर्वयोगाभ्यां नित्यं थलि प्रतिषेधप्रसङ्गः, जहर्थेत्यादौ भारद्वाजस्येति वचनाद्विकल्पेप्रसङ्गः एवं अचस्तास्वत् इत्यज्ञैव भारद्वाजग्रहणं करिष्यते, तदेवानन्तरयोगेऽप्यनुवर्तिष्यते, इह तु निवर्तिष्यते सत्यम्, अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति । तस्य मतम् - ऋकारान्तदन्यत्र ययिथ, पेचिथेतीड्भवति, अकारान्ते नेति । त्वदुक्ते तु न्यासे मतविपर्ययः कृतो भवति । एवं तर्ह्युपदेशग्रहणस्य अचस्तास्वत् इत्यत्रापकर्षादुपदेशेऽजन्तत्वात्सिद्धः प्रतिषेध इति मन्यते । ऋत एव भारद्वाजस्येति । विपरीतस्तु नियमो न भवति - ऋतो भारद्वाजस्यैवेति । यदि स्यान्नियमाश्रयणनर्थकं स्यात्, पूर्वोक्तेन प्रकारेण विध्यर्थत्वमेवाश्रयणीयं स्यात् । पूर्वयोर्योगयोरिति । ऋकारान्तेषु अनन्तरस्य विधिर्वा भवतीति न्यायस्य तावदसम्भवः । यस्य तर्हि प्रसङ्गः अचस्तास्वत् इति, तस्यैव नियमो युक्तः, तत्कथं पूर्वयोर्योगयोर्द्वयोरपि विकल्पः एवं मन्यते - द्वयोरनन्तरमस्यारम्भातासौ नित्यमनिटां मध्ये ऋत एव भारद्वाजस्य एनान्येषाम् - इत्येवं सामान्याकारेण नियम आश्रयणीय इति । तथा हि सतीति । असति तपरकरणे आञ्कारान्तनामप्यत्र ग्रहणं स्यात्, तेषां च तासौ सिद्धत्वाद् अतस्तास्वत् इत्यस्याप्रसङ्गे विध्यर्थमेवेदं स्यात्, न ह्रस्वग्रहणेन नियमार्थम्, विधिनियमसम्भवे विधेरेव ज्यायस्त्वादित्यर्थः ॥