उपदेशेऽत्वतः

7-2-62 उपदेशे अत्वतः आर्धधातुकस्य इट् वलादेः तासि थलि अनिटः नित्यम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात् तासाविव थलीडागमो न भवति। पक्ता — पपक्थ। यष्टा — इयष्ठ। शक्ता — शशक्थ। उपदेश इति किम्? कर्ष्टा — चकर्षिथ। अत्वत इति किम्? भेत्ता — बिभेदिथ। तपरकरणं किम्? राद्धा — रराधिथ। तास्वदित्येव — जिघृक्षति — जग्रहिथ। नित्यमनिट इत्येव — अङ्क्ता, अञ्जिता — आनञ्जिथ॥

Siddhanta Kaumudi

Up

उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥

Laghu Siddhanta Kaumudi

Up

उपदेशेऽकारवतस्तासौ नित्यानिटः परस्य थल इण् न स्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उपदेशेऽत्वतः>> - उपदेशेऽत्वतः । 'अत्वत' इति च्छेदः । अत् = ह्रस्वाकारः, सोऽस्याऽस्तीति अत्वान् । 'तसौ मत्वर्थ' इति भत्वान्न जश्त्वम् । अचेति वर्जं पूर्वसूत्रं, तत्र यदनुवृत्तं तदप्यनुवर्तते । तदाह — उपदेशेऽकारवत इति ।शक्लृ शशक्थ, 'पच्' पपक्थेत्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । उपदेशे किम् ।कृष विलेखने॑ । चकर्षिथ । अत्वत इति किम् । बिभेदिथ । तपरः किम् । रराधिथ । तासौ किम् । जग्रहिथजिघृक्षती॑त्यत्रसनि ग्रहगुहोश्चे॑ति सनि नित्यमनिट् , न तु तासौ । नित्येति किम् ।अञ्ज॑, आनञ्जथ ।ऊदित्त्वात्तासौ वे॑डिति भाष्यम् । चक्रमिथेत्यप्युदाहरणम्, स्नुक्रमो॑रिति नियमेनात्मनेपदे तासावनिट्कत्वेऽपि परस्मैपदे सेट्कत्वात् ।

Padamanjari

Up

अनजन्तार्थ आरम्भः । इयष्टेति । लिट।ल्भ्यासस्योभयेषाम् इति अभ्यासस्य सम्प्रसारणम्, व्रश्चादिष्ट्वम्। चक्रर्षिथेति । कृष विलेखने । भवत्ययं गुणे कृते सम्प्रत्यकारवान्, न तूपदेशे । जिग्रहिथेति । सनि ग्रहगुहोश्च इतीट्प्रतिषेधाद्भावत्ययं सनि नित्यानिट्, न तासौ । आनञ्चिथेति । अत आदेः तस्मान्नुड्द्विहलः, स्वरत्यादिसूत्रेण तासौ विकल्पितेडयम् ॥