अचस्तास्वत् थल्यनिटो नित्यम्

7-2-61 अचः तास्वत् थलि अनिटः नित्यम् आर्धधातुकस्य इट् वलादेः तासि

Kashika

Up

index: 7.2.61 sutra: अचस्तास्वत् थल्यनिटो नित्यम्


तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति। याता ययाथ। चेता चिचेथ। नेता निनेथ। होता जुहोथ। अचः इति किम्? भेत्ता बिभेदिथ। तास्वतिति किम्? लूत्वा लुलविथ। थलि इति किम्? याता ययिव। ययिम। अनिड्ग्रहणं नित्यम् इत्यनेन विशेषणार्थम्। नित्यग्रहणं किम्? विधोता, विधविता विदुधविथ। तासि विभाषितेट्, थलि नित्यम् इडागमो भवति। तास्वतिति वतिनिर्देशः किमर्थः? तासौ ततस्थलि प्रतिषेधार्थः। यो हि तासावसन्, असत्त्वाच् च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति। जघसिथ। उवयिथ। उत्तरसूत्रेऽपि तास्वदिति वर्तते। अदादेशो हि घसिः, वेञादेशश्च वयिस्तासौ न अस्ति।

Siddhanta Kaumudi

Up

index: 7.2.61 sutra: अचस्तास्वत् थल्यनिटो नित्यम्


उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.61 sutra: अचस्तास्वत् थल्यनिटो नित्यम्


उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण् न॥

Balamanorama

Up

index: 7.2.61 sutra: अचस्तास्वत् थल्यनिटो नित्यम्


अचस्तास्वत् थल्यनिटो नित्यम् - अत तस्य थलीडागमस्य भारद्वाजनियमाद्विकल्पं वक्ष्यस्तदुपयोगत्वेन सूत्रद्वयमुपन्यस्यति -अचस्तास्वत् । अधातोस्थलोऽभावाद्धातोरिति लभ्यते । 'अच ' इति तद्विशेषणम् । तदन्तविधिः । 'उपदेशेऽत्वत' इत्युत्तरसूत्रादुपदेश इत्यपकृष्यत इतिऋतो भारद्वाजस्ये॑ति सूत्रभाष्ये स्थितम् । उपदेशे अजन्तादित्यन्वयः । 'अनिट' इति बहुव्रीहेः पञ्चमी । नित्यमिड्विहीनादित्यन्वयः । 'तासि च कॢप' इत्यतस्तासीत्यनुवर्तते । तासौ नित्यमनिट इत्यन्वयः । थलीति षष्ठर्थे सप्तमी ।गमेरिट् परस्मैपदेष्वि॑त्यत इडिति,न वृद्भ्यश्चतुभ्र्य॑ इत्यतो नेति चानुवर्तते ।तास्व॑दिति सप्तम्यान्तद्वतिः । तदाह — उपदेशे योऽजन्त इत्यादि, इण्न स्यादित्यन्तम् ।तास्व॑ — दिति सेषः । यथा तासि नेट् तथा थल्यपि नेडित्यर्थः । चिचेथ जुहोथेत्याद्युदाहरणम् । अत्र क्रादिनियमप्राप्त इण्न भवति । अजन्तात्किम् । बिभेदिथ । उपदेश इति किम् । 'ह्मञ्' जहर्थ । इह गुणे रपरत्वेऽजन्तत्वाऽभावादिण्निषेधो न स्यादित्युपदेशग्रहणम् । नित्यग्रहणं किम् । 'स्वृ गतौ' सस्वरिथ ।स्वरितसूती॑ति तासौ विकल्पितेट्कत्वान्न निषेधः । तासौ किम् । लूत्वा लुलविथ । थलः किम् ।पपिव पिम । इह तासीत्यनुव#ऋत्त्यैव सिद्धेःतास्व॑दिति नातीवोपयुज्यत इति केचित् । वस्तुतस्तु यस्तासौ विद्यते तस्मादेव परस्य थल इण्निषेधार्थ तास्वदित्यावश्यकम् । तेनलिटन्यतरस्या॑मित्यदो घस्लृभावे जघसिथेत्यत्र न निषेधः, घसस्तासावभावादति — अद भक्षम इति धातौ मूल एव वक्ष्यते ।यस्तासावस्ति अनिट् चे॑ति भाष्यम् । एव वेञो वयादेशेऽपि न निषेध ति बोध्यम् ।

Padamanjari

Up

index: 7.2.61 sutra: अचस्तास्वत् थल्यनिटो नित्यम्


यस्थलि क्रादिनियमादिट् प्राप्तः स निषिध्यते । पञ्चसूत्र्येत आरभ्य तास्वदित्येष डेर्वतिः ॥ उपदेशग्रहोऽप्यत्र वक्ष्यमाणोऽपकृष्यते । गुणे नित्ये कृतेऽप्येष ऋदन्ते प्राप्नुयात्कथम् ॥ क्व नित्यमनिट् इत्यपेक्षायां तासेः सन्निधानातत्रैवेति विज्ञायते, यद्वापूर्वसूत्रात् तासि इति वर्तते । यातेति । तासावनिट्प्रदर्शनार्थमुपन्यस्तम् । लूत्वेति । तास्वत् इत्यनुच्यमाने यत्र क्वापि नित्यानिटस्थलि प्रतिषेधः स्यात् । लुनातिश्चायम् र्श्युकः कितीति प्रतिषेधात्किति नित्यानिट्कः । ययिव, ययिमेति । आतो लोप इटि च । अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थमिति । असत्यनिड्ग्रहणे नित्यमित्यनेन प्रतिषेध तएव विश्ष्येत - नित्यमण्न भवतीति । यद्यप्यत्र विकल्पे न प्रकृतः, तथापीदमेव नित्यग्रहणं पूर्वस्व विधेरनित्यत्वं ज्ञापयेत् । सेड्निवृत्यर्थ त्वनिड्ग्रहणं न भवति, कथम् तास्वदित्युच्यते, यथा तासौ न भवति एवं थल्यपीति । न च यस्तासौ सेट् तस्य एथलि प्रतिषेधो भवन् तास्वत्कृतो भवति । विधोता, विधवितेति । स्वरत्यादिसूत्रेण तासाविड्विकल्पितः । एक्रमेरपि चक्रमिथेति भाव्यम्, न हि तासौ नित्यानिट् क्रमिः, आत्मनेपदे इडभावात्परस्मैपदे सेटत्वात् । तासौ विभाषेटस्थलि नित्यमिडागमो भवतीति । यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा स सर्वः क्रादिसूत्रेण नियम्यते इत्यस्मिन्पक्षे इति भावः । यद् तु प्रतिषेधाधिकारेण क्रादीनामेवेण्न भवतीतिनियमात्प्रतिषेध एव सर्वो निवर्तते, स्वरत्यादि लक्षणस्तु विकल्पो भवत्येव इति पक्षः, तदा विदुधोथ, विदुधविथेत्युभयं भवति । यद्येवम्, नित्यमनिट इति न वक्तव्यमस्तुः यस्तासौ विकल्पितेट् तस्याप्ययं प्रतिषेधः ऋतो भारद्वाजस्य इति नियमाद्विकल्प एवावस्थास्यते नैवं शक्यम्, स्वरतौ हि दौषः स्यात् । भारद्वाजपक्षेऽपि तस्य प्रतिषेधात् सस्वर्थेत्येव स्यात् । यदा तु विकल्पितेटस्थलि प्रतिषेधोऽयं न भवति, तदा सस्वर्थ, सस्वरिथेत्युभयं भवति । तास्वदिति वतिनिर्देश इति । तास्वदित्यस्य निर्देश इत्यर्थः । तास्वदित्यनुच्यमाने प्रकृतस्य तासीत्यस्यानुवृतावप्येतावदेव लभ्येत - तासौ नित्यमनिटस्थलीण् न भवतीति, ततश्च यस्तासावसन, असत्वादेव नित्यानिट्, तस्यापि प्रसज्येत । तास्वदित्युच्यमाने तु वतेः सादृश्योगोचरात् । यथाभूतस्य तासौ नेट् तथाभूतस्य थल्यपि ॥ इटा न भाव्यमित्येष दोषो नैव प्रसज्यते । इटस्तास्यसतो धातोर्निषेधे विहिते थलि । अभावः सदृशो न स्यात् थलि तास्यसतो भवेत् ॥ अधसिथेति । स्थानिवद्भावात् इडत्यर्तिव्ययतीनाम् इत्येवैष सिद्ध इत्याहुः । थौतरसूत्रेऽपीति । एतेनोतरार्थं तास्वदित्युच्यत तैति दर्शयति । अदादेशो हीति । ननु चास्य स्थानी तासावस्ति, अस्ति चानिडिति तदादेशस्यापि स्थानिवद्भावात् सत्वानिट्त्वे स्याताम् नैतदस्ति, स्थानिवद्भावः शास्त्रीयेषु प्रवर्तते, न च तासौ सत्वं नाम शास्त्रीयं कार्यम् ॥