7-2-60 तासि च क्लृपः आर्धधातुकस्य इट् वलादेः से परस्मैपदेषु न
index: 7.2.60 sutra: तासि च कॢपः
कृप उत्तरस्य तासेः सकारादेश्च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति। श्वः कल्प्ता। कल्प्स्यति। अकल्प्स्यत्। चिक्ल्̥प्सति। पर्स्मैपदेषु इत्येव, कल्पितासे। कल्पिष्यते। कल्पिषीष्ट। अकल्पिष्यत। चिकल्पिषते। क्ल्̥पेरप्यात्मनेपदेन समानपदस्थस्य इडागमः इष्यते। अन्यत्र प्रतिषेधः। कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिक्ल्̥प्सिता, चिक्ल्̥प्स त्वम् इति।
index: 7.2.60 sutra: तासि च कॢपः
कॢपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । कॢप्सीष्ट । अकॢपत् । अकल्पिष्ट । अकॢप्त । अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥ अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च ।{$ {!763 घट!} चेष्टायाम्$} । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-<{SK2568}> इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् <{SK2762}> इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । शृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः ।{$ {!764 व्यथ!} भयसंचलनयोः$} । व्यथते ॥
index: 7.2.60 sutra: तासि च कॢपः
तासि च कॢपः - तासि च । चकारात्सकाराद्याद्र्धदातुकं गृह्रते ।सेऽसिचि कृत॑इत्यतः 'से' इति,आर्धधातुकस्ये॑त्यत आर्धधातुकस्येडिति चानुवर्तते ।न वृद्भ्यश्चतुर्थ इत्यतो नेति च,गमेरि॑डित्यतः परस्मैपदमिति च । तदाह — कॢपेः परस्येत्यादिना.कल्प्तासीति । 'लुटि च कॢप' इति परस्मपैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधे गुण रपरत्वे लत्वे रूपम् । परस्मपैदाऽभावपक्षे तु ऊदिल्लक्षममिड्विविकल्पं मत्वा आह — कल्पितासे कल्प्तासे इति । लृटि तु 'लुटि च कॢपः' इति परस्मैपदपक्षे ऊदिल्लक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢपः' इति इण्निषेधं मत्वा आह — कल्प्स्यतीति । परस्मपैदाऽभावे तु ऊदित्त्वादिडविकल्पं मत्वा आह — कल्पिष्यते कल्प्स्यत इति । कल्पताम् । अकल्प । कल्पेत । आशीर्लिङि ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिषीष्टेति, कॢप्सीष्टेति च । इडभावेलिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । अकॢपदिति ।द्युद्भ्यो लुङी॑ति परस्मैपदपक्षे द्युतादिलक्षणे अङि सति ङित्त्वान्न गुणः । अङभावे तु ऊदिलक्षणमिड्विकल्पं मत्वा आह — अकल्पिष्टेति, अकॢप्तेति च । अकल्प्स्यदिति । लृङि स्ये 'लुटि च कॢप' इत#इ परस्मैपदपक्षे ऊदिलक्षणमिड्विकल्पं बाधित्वा 'तासि च कॢप' इति इण्निषेध इति भावः । परस्पैपदाऽभावपक्षे तु ऊदिल्लक्षणमिड्विकल्पं मत्वा आह — कल्पिष्यत अकल्प्स्यतेति । वृदिति । वृत्तेः समाप्त्य्रथकात्कर्तरि क्विप् । तदाह — वृत्त इति । 'गत्यर्थाकर्मके' ति कर्तरि क्तः । वृत्तशब्दस्य विवरणं - सम्पूर्ण इति । द्युतादयः कृपूपर्यन्ता अनुदात्तेतो गताः । अथ त्वरत्यन्ता इति । 'ञि त्वरा संभ्रमे' इत्यन्ता इत्यर्थः । षितश्चेति । षित्संज्ञका इत्यर्थः । षित्कार्यभाज इति वा ।ञि त्वरा संभ्रमे इत्युक्त्वाघटादयः षितः॑इति वक्ष्यमाणत्वादिति भावः । षित्फलं तु त्विति । मित्त्वफलं तु 'मितां ह्रस्वः' इति णौ ह्रस्वः॑ इति णौ ह्रस्वः, 'चिण्णमुलोर्दीर्घः' इति दीर्घश्च वक्ष्यते ।धातुपाठे अर्थनिर्देश उपलक्षण॑मित्युक्तम् । ततश्चार्थान्तरवृत्तेरपि घटदातोर्घटादिकार्यं भवत्येव । तदाह — घटयति विघटयतीति । संश्लेषयति विश्लेषयतीत्यर्थः । णौ ह्रस्वोदाहरणमिदम् । अघटि अघाटीति । चिण्युदाहरणम् । घाटंघाटम्, घटंघटमिति ण्यन्ताण्णमुलि दीर्घविकल्पस्योदाहरणम् ।नित्यवीप्सयो॑रिति द्विर्वचनम् । ननु यद्यर्थान्तरवृत्तेरपि घटधातोर्मित्त्वं तदा 'उद्घाटनं' 'प्रविघाटियते' त्यत्र विकासनार्थकस्यापि घटधातोर्णौ मित्त्वाद्ध्रस्वः स्यादित्याक्षिपति — कथं तर्हीति । शृण्विति ।समाधानमिति शेषः । चौरादिकस्येति । चुरादौ 'घट सङ्घाते' इति पठितम् । तदिदं घाटादिकाद्धटधातोर्धात्वन्तरमेव । तस्य णौ मित्त्वाऽभावाद्ध्रस्वाऽभावे 'उद्घटनं'प्रविघाटयिते॑ति निर्बाधमेव, अर्थनिर्देशस्योपलक्षणतया सङ्घातादन्यत्र विकसनेऽपि चौरादिकस्य वृत्तिसंभवादिति भावः । ननु घटादिगणादन्यत्र अर्थान्तरे पठितानां धातूनामिह धातूनामिह घटादिगणे पाठो घटादिगणनिर्दिष्टएवार्थे मित्त्वार्थोऽनुवाद एव,नतु धातुभेदः । अन्यथा घाटादिकत्वं, गणान्तरस्थत्वं चादाय मित्त्वतदभावयोर्विकल्पापत्तेः । ये तु धातवो घटादिगण एव पठिता न तु गणान्तरे, ते,#आमन्त्वर्थान्तरवृत्तावपि मित्त्वमिति धातुवृत्त्यादिग्रन्थेषु सिद्धान्तः । घटधातुस्तु 'घट सङ्घाते' इति चुरादौ पठितः । अतस्तस्यैवात्र गणे चेष्टायामर्थे मित्त्वार्थोऽनुवाद इति लब्धम् । एवं चविघटयती॑त्यादावर्थान्तरवृत्तौ ण्यन्तस्य कथं मित्त्वमित्याशङ्क्य निराकरोति -नचेति । तस्यैव — चौरादिकस्यैव, घटधातोश्चेष्टात्मके अर्थविशेषे वृत्तौ मित्त्वार्थोऽनुवादः स्यादिति न वाच्यमित्यर्थः । कुत इत्यत आह — नान्ये मितोऽहेताविति । चुराद्यन्तर्गणसूत्रमिदम् । तत्र हि 'ज्ञप मिच्च' 'यम च परिवेषणे' 'चह परिवेषणे' 'चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' 'चिञ् चयने' इति पञ्चधातून् पठित्वा 'नान्ये मितोऽहेतौ' इति पठितम् । तत्र 'चह परिकल्कने' इत्यस्य स्थानेचपे॑ति केचित्पठन्ति । तथाच पञ्चत्वस्य न विरोधः । एषु पञ्चस्वपि मिदित्यनुवर्तते ।अहेता॑विति च्छेदः । कस्मादन्ये इत्यपेक्षायां संनिहितत्वाज्ज्ञापादिपञ्चभ्य इति लभ्यते । हेतुशब्देनहेतुमति चे॑ति सूत्रविहितो णिज्लभ्यते । तद्भिन्नो णिच् स्वार्थिकोऽहेतुः । तदाह - अहेतौ स्वर्थे णिचीति । ज्ञप आदिर्येषामिति अतद्गुणसंविज्ञानो बहुव्रीहिः । ज्ञपधातोस्तदुत्तरेभ्यश्च पञ्चभ्य इत्येवं षड्भ्योऽन्ये ये चुरादयस्ते मितो नेति फलितम् । एवं च चुरादौ ज्ञपादिपञ्चकव्यतिरिक्तानां मित्त्वाऽभावात् घट चेष्टाया॑मिति निर्देशश्चौरादिकस्य 'घट सङ्घाते' इत्यस्य चेष्टायां वृत्तौ मित्त्वार्थोऽनुवाद इति न युज्यते, किंतु इहैव घटादिगणेघट चेष्टाया॑मित्यपूर्वोऽयं धातुः । तस्य चाऽर्थान्तरवृत्तावपि मित्त्वमस्त्येवेतिविघटयती॑त्यादौ मित्तवाद्ध्रर्वो निर्बाध इति भ#आवः ।
index: 7.2.60 sutra: तासि च कॢपः
उदाहरणेषु लुटि च कॢपः इति परस्मैपदम् । कॢपेरपीत्यादि । अन्यथा कल्प्स्यतीत्यादावेव स्यात्, न तु चिकॢप्सिता, चिकॢप्स त्वमित्यादाविति भावः । इह तु न वृद्भ्यः पञ्चभ्यस्तासि चेति वक्तव्यम्, कॢपिग्रहणं तु शक्यमकर्तुम् । न च वृतादिभ्योऽपि तासौ प्रसङ्गः, परस्मैपदाभावात्, आत्मनेपदेन समानपदस्थत्वाच्च ॥