न वृद्भ्यश्चतुर्भ्यः

7-2-59 न वृद्भ्यः चतुर्भ्यः आर्धधातुकस्य इट् वलादेः से परस्मैपदेषु

Kashika

Up

index: 7.2.59 sutra: न वृद्भ्यश्चतुर्भ्यः


वृतादिभ्यश्चतुर्भ्यः उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु इडगमो न भवति। वृत् वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वृधू वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। शृधू शर्त्स्यति। अशर्त्स्यत्। शिशृत्सति। स्यन्दू स्यन्त्स्यति। अस्यन्त्स्यत्। सिस्यन्त्सति। चतुर्भ्यः इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थम् क्रियते कृपू सामर्थ्ये वृतिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते न किञ्चिदनिष्टं प्राप्नोति? तत् क्रियते स्यन्देरूदिल्लक्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेत इति। चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति। परस्मैपदेषु इत्येव, वर्तिष्यते। वर्तिषीष्ट। अवर्तिष्यत। विवर्तिषते। अत्र अपि आत्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते। अन्यत्र सर्वत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति, विवृत्सिता, विवृत्स त्वम् इति।

Siddhanta Kaumudi

Up

index: 7.2.59 sutra: न वृद्भ्यश्चतुर्भ्यः


एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत ।{$ {!759 वृधु!} वृद्धौ$} ।{$ {!760 शृधु!} शब्दकुत्सायाम्$} । इमौ वृतिवत् ।{$ {!761 स्यन्दू!} प्रस्रवणे$} । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः <{SK2347}> इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः <{SK2348}> इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-<{SK2347}> इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.59 sutra: न वृद्भ्यश्चतुर्भ्यः


वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत्॥ {$ {! 19 दद !} दाने $} ॥ ददते॥

Balamanorama

Up

index: 7.2.59 sutra: न वृद्भ्यश्चतुर्भ्यः


न वृद्भ्यश्चतुर्भ्यः - न वृद्भ्यः । सेऽसिचीति सूत्रात्से इति, आर्धधातुकस्येडिति चानुवर्तते । एभ्यः सकारादेरिति । तङानयोरभावे इति ।गमेरि॑डित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तङानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेनजिगमिषिते॑त्यत्र गमेःसन्नन्तात्तृचि इट् सिध्यति, वृतेः सन्नन्ताद्धेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्यति । वत्स्र्यतीति । लृटि स्यः ।वृद्भ्यः स्यसनो॑रिति परस्मैपदविकल्पः । 'न वृद्भ्यः' इति इण्निषेधः । गुणः । रपरत्वम् । परस्मैपदाऽभावे त्वाह — वर्तिष्यते इति । 'तङानयोरभावे' इत्युक्तेः 'न वृद्भ्यः' ति इण्निषेधो न । अवर्तिष्टेति । परस्मैपदस्याङश्चाऽभावे रूपम् । अवत्स्र्यदिति । लृङि स्यः ।वृद्भ्यः स्यसनो॑इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि 'द्युद्भ्यो लुङि' इति परस्मैपदपक्षे द्युतादिलक्षणोऽङ् । लृट्लृङो 'वृद्भ्यः स्यसनोः' इति परस्मैपदपक्षे 'न वृद्भ्यः' इति इण्निषेधश्च । तदाह — इमौ वृतुदिति । वत्स्र्यति — वर्धिष्यते । अवृधत् — अवर्धिष्ट । अवत्स्र्यत् — अवर्धिष्यत । शत्स्र्यति — शर्धिष्यते । अशृधत् — अशर्धिष्ट । अशत्स्र्यत्-अशर्धिष्यत । स्यन्दू धातुः ऊदित्, नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः । सस्यन्दिषे सस्य्नत्से इति । इडभावे दस्य चर्त्वेन तः । सस्यन्दिद्ध्वे सस्यन्द्ध्वे इति । इडभावे धकारात् प्राग् दकारः । खर्परकत्वाऽभावान्न चर्त्वम् । स्यान्दितास्यन्तेति । इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सतिवृद्भ्यः स्यसनो॑रिति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पं बाधित्वान वृद्भ्यश्चतुभ्र्यः॑ इति इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते, नतु स्यन्दिष्यत इति । तदयुक्तम्, अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात्, सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षया च 'न वृद्भ्यः' इति निषेधस्य बहिरङ्गत्वादित्यशङ्क्य निराकरोति — वृदभ्य इति ।वृद्भ्यः स्यसनो॑रिति परस्मैपदेकृते अन्तरङ्गमपि विकल्पं बाधित्वा 'न वृद्भ्य' इति निषेध इत्यन्वयः । कुत इत्यत आह — चतुग्र्रहमसामर्थ्यादिति । यदि ह्रत्र ऊदिल्लक्षण इड्विकल्प एव स्यान्नतुन वृद्भ्यश्चतुभ्र्यः॑ इति निषेधस्तर्हि 'चतुभ्र्यः' इति व्यर्थं स्यात् । न च कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यं, 'तासि च कॢपः' इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतुग्र्रहणं चतुर्णामपि सर्वत्र इण्निषेधार्थमिति भावः । भाष्ये तुनिषेधाश्च बलीयांसः॑ इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य 'न वृद्भ्यः' इति निषेधेन बाधसिद्धेश्चतुग्र्रहणं प्रत्याख्यातम् । तथा च लृटि परस्मपैदपक्षे तु ऊदित्त्वादिड्विकल्पं बाधित्वा 'न वृद्भ्यः' इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्पं मत्वाह — स्यन्दिष्यते स्यन्त्स्यते इति । इडभावे दस्य चर्त्वम् । आसीर्लिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह — स्यान्दिषीष्ट स्यन्त्सीष्टेति । 'न वृद्भ्यः' इति निषेधस्त न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुङि विशेषमाह — द्युद्भ्यो लुङीत्यादिना । अङिति । 'द्युतादिलक्षणे' इति शेषः । नलोप इति ।अनिदितामित्यनेने॑ति शेषः । आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह — अस्यन्दिष्ट अस्यन्त्तेति । तत्र इडभावपक्षे अस्यन्द् स् त इति स्थिते 'झलो झली' ति सलोपे दस्य चर्त्वम् । न चाऽपित्त्वेन ङित्त्वात्अनिदिता॑मिति नलोपः शङ्क्यः, सिज्लोपस्याऽसिद्धत्वेनाऽनुपधात्वादिति भावः । अस्यन्त्सातामस्यन्त्सतेति । अस्यन्त्थाः, अस्यन्त्साथाम् । अस्यन्द्ध्वम् । अस्यनन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि । अस्यन्त्स्यत् — अस्यन्त्स्यत -अस्यन्दिष्यत ।

Padamanjari

Up

index: 7.2.59 sutra: न वृद्भ्यश्चतुर्भ्यः


बहुवचननिर्द्देशाच्चतुर्ग्रहणाच्चाद्यर्थो गम्यते । वृत्तिर्वृधिः शृधिः स्यन्दिश्चत्वारोऽमी वृतादयः । शृधु शब्दकुत्सायाम् । अन्ये प्रसिद्धाः । उदाहरथणेषु वृद्भ्यः स्यसनोः इति तपरस्मैपदम् । चतुर्भ्य इति न वक्तव्यमिति । किं कारणम् इत्यत तथाअह - वृद्ग्रहतणं हीति । यदि द्यौतादिपरिसमाप्त्यर्थं तत्किमायातं वृतादिपरिसमाप्तेः इत्यत आह - तदेवतेति । तागुह्ययमाणविशेषत्वादिति भावः । अवन्तरङ्गमपीति । अन्तरङ्गत्वं विकल्पस्यार्धधातुकमात्रापेक्षत्वात् । अयं तु प्रतिषेधो बहिरङ्गः, सकारादिविशेषापेक्षत्वात्, बहिर्भूतपरस्मैपदापेक्षत्वाच्च । ननु चान्येष्वपि वृतादिषु आर्धधातुकलक्षणोऽपीडन्तरङ्ग एव, अथ तस्य वचनसामर्थ्यातप्रतिषेधः, तर्हि विकल्पस्यापि भविष्यति नैतदस्ति येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्तिश्चार्धधातुकस्येडित्यस्य, न तूदिल्लक्षणस्य । यदि परम्, परत्वादुदिल्लक्षणमपीट्ंअ प्रतिषेधो बाधेत ततदपि न अन्तरङ्गबहिरङ्गयोर्विप्रतिषेधानुपपतेः । कथं तर्हि सत्यपि चतुर्ग्रहणे तस्य प्रतिषेधः इत्यत आह - चतुर्ग्रहणे हीति । सति च तस्मिन् चतुर्थ्या प्रतिषेधेन भाव्यमिति प्रतीतिः, इतरथा संख्याश्बदाभावादेकस्य प्रतिषेधाभावेऽपि न कश्चिद्भावधः । परस्मैपदेष्वित्येवेति । यद्येवम्, यत्र वृतादिभ्यः परस्यार्धधातुकस्य परस्मैपदमनन्तरं तत्रैव स्यात् - वर्त्स्यतीत्यादौ, विवृत्सतीत्यादौ न स्यात्, शपा व्यवधानात् । तएकादेशेऽपि कृते स्थानिवद्भावाव्द्यवधानमेव, विवृत्सिष्यति, विवृत्सयतीत्यादौ प्रतियक्षमेव व्यवधानम्, कृति परस्मैपदलुकि च परस्मैपरगन्धोऽपि नास्तीति न स्यादेव तत्राह - अत्रापीति । इष्टिरेवेयम् । विवृत्सित्रीयत इत्यादौ चोक्त एव परिहारः ॥