गमेरिट् परस्मैपदेषु

7-2-58 गमेह् इट् परस्मैपदेषु आर्धधातुकस्य इट् वलादेः से

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो भवति। गमिष्यति। अगमिष्यत्। जिगमिषति। गमेरिति किम्? चेष्यति। इड्ग्रहणं नित्यार्थम्। परस्मैपदेष्विति किम्? संगंसीष्ट। संगंस्यते। संजिगंसते। संजिगंसिष्यते। अधिजिगांसते। अधिजिगांसिष्यते। गमेरिङादेशस्य <<अज्झनगमां सनि>> ६.४.१६ इति दीर्घत्वम्। स इत्येव — गन्तास्मि, गन्तास्वः, गन्तास्मः आत्मनेपदेन समानपदस्थस्य गमेरयमिडागमो नेष्यते। अन्यत्र सर्वत्रैवेष्यते। कृत्यपि हि भवति, परस्मैपदलुकि च — संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति। पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्येड् भवति। तन्मतेन संजिगंसिता, अधिजिगांसिता व्याकरणस्य इत्येव भवितव्यम्॥

Siddhanta Kaumudi

Up

गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥

Laghu Siddhanta Kaumudi

Up

गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गमेरिट् परस्मैपदेषु>> - गमेरिट् ।गमे॑रिति पञ्चमी ।सेऽसिची॑त्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः । तदाह — गमेः परस्येत्यादिना ।परस्मैपदेष्वि॑त्यस्य आत्मनेपदाऽभावे इत्यर्थः । एवं चसंजिगमिषिते॑ति तृचि इट् सिध्यति । गमिष्यतीति । गच्छतु अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह — लृदित्त्वादङिति ।गमहने॑ति उपधालोपो नेत्याह — अनङीति पर्युदासादिति । अगमदिति । लृङि — अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः । रपरत्वम् । ससर्पेति । ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाऽभावादकारवत्त्वाऽभावावच्च नेड्विकल्पः । ससर्पिथ ससृपथुः । ससृप.ससर्प ससृपिव ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते — अनुदात्तस्य च ।सृजिदृशो॑रित्यतो झल्यमकितीति, 'आदेच' इत्यत उपदेशे इति चानुवर्तते । तदाह — उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः । उपदेशे किम् । क्तप्रत्यये — सृप्तः । रुआप्तेति । सृप्धातोर्लुटि तासि अमागमे ऋकारस्य यणिति भावः । सर्प्तेति । अमभावेलघूपधगुणे रपरत्वमिति भावः । एवं रुआप्स्यति सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति । लृदित्त्वाच्च्लेरङि सति ङित्त्वान्न ग#उण इति भावः । अरुआप्स्यत् । असर्प्स्यत् । यम उपरमे इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति ।इषुगमियमा॑मिति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । तदाह- येमिथ । ययन्थेति । इडभावे रूपम् । येमथुः येम । ययाम । ययम । येमिव । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति ।यमरमे॑ति इट्सकौ ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संतापे इति । अनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ ततप्थ तेपथुः तेप । तताप ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे — षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात्तपधातौ परत इति यावत् । 'अनासेवने' इत्येतद्व्याख्यास्यन्नासेवनशब्दं व्याचष्टे - पौनः पुन्यमिति ।आसेवन॑शब्देन सह नञ्समास इत्यभिप्रेत्याह — ततोऽन्यस्मिन्विषये इति । आदेशत्वाऽभावात्पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकास्य ष्टुत्वेन टः । आसेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्तहल्मध्यस्थतवादेत्त्वाऽभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह — तत्यजिथ तत्यक्थेति । इडभावेचोः कु॑रिति भावः । त्युक्तेति । त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति । षोपदेशोऽयमनिट्, नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाऽभावात्तस्मिन्परेअनिदिता॑मिति नलोपाऽप्रवृत्तेरराह — दंशसञ्जेति नलोप इति । अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । अतुसादौ तु अकित्त्वान्न नलोपः । ससञ्जतुः ससञ्जुः । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ — ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेऽनुस्वारस्य परसवर्णौ ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज । ससञ्जिव ससञ्जिम.क्रादिनियमादिट् । सङ्क्तेति । तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य ङकार इति भावः । सङक्ष्यति । सजत् । असजत् । सजेत् । सज्यात् । असाङक्षीत् । हलन्तत्वाद्वृद्धिः । असङ्क्ष्यत् । दृशिर्प्रेक्षणे इति । इरित् । अनिट् च । पश्यतीति । शितिप्राघ्राध्मे॑ति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्तः । अजन्ताऽकारवत्त्वाऽभावात्अचस्तास्वदिति, 'उपदेशेऽत्त्वतः' इति निषेधस्य चाऽप्राप्तेः । ऋदन्तत्वाऽभावेन भारद्वाजनियमाऽप्रसक्तेः ।

Padamanjari

Up

एसंगंस्यत इति । समो गम्यृच्छि इत्यात्मनेपदम् । गमेरिङदेशस्येति । तेन सञ्जिगंसते इत्यत्र न भवतीति भावः । आत्मनेपदेन समानपदस्थस्येति । इह तु जिगमिषितेवाचरति जिगमिषित्रीयत इति बहिरङ्गत्वादात्मनेपदस्य प्रतिषेधाभावः । एतच्च प्रस्नवित्रीयत् , इत्यत्र वार्तिककारमेत व्याख्यात्म् । अन्यत्र सर्वत्रैवेष्यत इति । कथं पुनरिष्यमाणोऽपि लभ्यते योगविभागात् । गमः सकारादाविड् भवतीत्येको योगः, ततः परस्मैपदेषु इति द्वितीयो नियमार्थः । लुल्यजातीयचापेक्षत्वान्नियमस्यात्मनेपदविषय इण्निवर्तत इति केचिदाहुः । अन्ये मन्यन्ते - परस्मैपदेष्विति सप्तमीनिर्देशादानन्तर्याश्रयणादयमर्थो भवति - गमेरुतरस्य सकारादेरार्धधातुकस्य तिङ्क्ष्बनन्तरेषु यदिड्भवति परस्मैपदेष्वेवेति, ततश्च सङ्गंस्यते इत्यत्रैव व्यावृत्तिः एस्यात्, न सङ्गंसीष्टेत्यत्र । नापि संजिगांत त्यादिउ, शपा व्यावधानात् । एकादेशे नास्ति व्यावधानम् एकादेशः पूर्वविधौ स्थानिवद्भवति तैति स्थानिवद्भावाव्द्यवधानमेव । संजिगंसिष्ययत इत्यादौ च नैव स्यात्, तस्मादिष्टिरेवेयम् । अत तेव इष्यत इत्युक्तम् । पदशेषो नाम ग्रन्थविशेषः । तन्तेनेत्यादि । अनन्तरोक्तस्य दूषणम् न पुनरयं पक्षः स्यापितः, वार्तिकविरोधात् । यदाह - सिद्धं गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् इति ॥