सेऽसिचि कृतचृतच्छृदतृदनृतः

7-2-57 से असिचि कृतचृतच्छृदतृदनृतः आर्धधातुकस्य इट् वलादेः वा

Kashika

Up

index: 7.2.57 sutra: सेऽसिचि कृतचृतच्छृदतृदनृतः


सकारादावसिचि आर्धधातुके कृत चृत छृद तृद नृत इत्येतेभ्यो धातुभ्यो वा इडागमो भवति। कृत कर्त्स्यति। अकर्त्स्यत्। चिकृत्सति। कर्तिष्यति। अकर्तिष्यत्। चिकर्तिषति। चृत चएत्स्यति। अचर्त्स्यत्। चिचृत्सति। चर्तिष्यति। अचर्तिष्यत्। चिचर्तिषति। छृद छर्त्स्यति। अच्छर्त्स्यत्। चिच्छृत्सति। छर्दिष्यति। अच्छर्दिष्यत्। चिछर्दिषति। तृद तर्त्स्यति। अतर्त्स्यत्। तितृत्ससि। तर्दिष्यति। अतर्दिष्यत्। तितर्दिषति। नृत नर्त्स्यति। अनर्त्स्यत्। निनृत्सति। नर्तिष्यति। अनर्तिष्यत्। निनर्तिषति। से इति किम्? कर्तिता। असिचि इति किम्? अकर्तीत्।

Siddhanta Kaumudi

Up

index: 7.2.57 sutra: सेऽसिचि कृतचृतच्छृदतृदनृतः


एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् ।{$ {!1117 त्रसी!} उद्वेगे$} । वा भ्राश - <{SK2321}> इति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः ।{$ {!1118 कुथ!} पूतीभावे$} । पूतीभावो दौर्गन्ध्यम् ।{$ {!1119 पुथ!} हिंसायाम्$} ।{$ {!1120 गुध!} परिवेष्टने$} ।{$ {!1121 क्षिप!} प्रेरणे$} । क्षिप्यति । क्षेप्ता ।{$ {!1122 पुष्प!} विकसने$} । पुष्प्यति । पुपुष्प ।{$ {!1123 तिम!} {!1124 ष्टिम!} {!1125 ष्टीम!} आर्द्रीभावे$} । तिम्यति । स्तिम्यति । स्तीम्यति ।{$ {!1126 व्रीड!} चोदने लज्जायां च$} । व्रीड्यति ।{$ {!1127 इष!} गतौ$} । इष्यति ।{$ {!1128 षह!} {!1129 षुह!} चक्यर्थे$} । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति ।{$ {!1130 जॄष्!} {!1131 झॄष्!} वयोहानौ$} । जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत । जीर्यात् । जॄस्तम्भु - <{SK2291}> इत्यङ्वा । ऋदृशोङि गुणः <{SK2406}> । अजरत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् ।{$ {!1132 षूङ्!} प्राणिप्रसवे$} । सूयते । सुषुवे । स्वरितिसूति - <{SK2279}> इति विकल्पं बाधित्वा श्र्युकः किति <{SK2381}> इति निषेधे प्राप्ते । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता ।{$ {!1133 दूङ्!} परितापे$} । दूयते ।{$ {!1134 दीङ्!} क्षये$} । दीयते ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.57 sutra: सेऽसिचि कृतचृतच्छृदतृदनृतः


एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा। नर्तिष्यति, नर्त्स्यति। नृत्यतु। अनृत्यत्। नृत्येत्। नृत्यात्। अनर्तीत्। अनर्तिष्यत्, अनर्त्स्यत्॥॥ {$ {! 4 त्रसी !} उद्वेगे $} ॥ वा भ्राशेति श्यन्वा। त्रस्यति, त्रसति। तत्रास॥

Balamanorama

Up

index: 7.2.57 sutra: सेऽसिचि कृतचृतच्छृदतृदनृतः


सेऽसिचि कृतचृतच्छृदतृदनृतः - सेऽसिचि । से- असिचीति छेदः । सप्तमी षष्ठर्थे । कृत चृत छृत तृद नृत् एषां समाहारद्वन्द्वात्पञ्चमी ।उदितो वे॑त्यतो वेति, आर्धधातुकस्येडिति चानुवर्तते । तदाह — एभ्य इत्यादिना । नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तीदिति ।सेऽसिची॑त्युक्तेर्नित्यमिडिति भावः । त्रसी उद्वेगे ।वा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासविकल्पौ मत्वाह — त्रेसतुः तत्रसतुरिति । कुथ पूतीभावे इति । पवित्रीभवने इत्यर्थः, दुर्गन्धकरणे इति वा ।पूतिगन्धस्तु दुर्गन्धः॑ इत्यमरः । तिम ष्टिम ष्टीमेति । द्वितीयतृतीयौ षोपदेशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षह षुहेति । षोपदेशौ । चकार्थस्तृप्तिरिति । यद्पिचक तृप्तौ प्रतिघाते चे॑त्युक्तं तथापि तृप्तिरेवेह विवक्षिता, व्याख्यानात् । षुहेः 'नपुंसके भावे क्तः' इति क्तप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरितिपूरणगुणे॑ति सूत्रे कैयटः । जृष् झृष् ।सेट्कौ । जीर्यतीति ।ऋत इद्धातो॑रिति इत्त्वेहलि चे॑ति दीर्घ इति भावः । अतुसादौऋच्छत्यृता॑मिति गुणे रपरत्वेवा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासलोपविकल्प इति भावः । जजरिथ ।॒वृतो वे॑ति मत्वाह — जरिता जरीतेति । षूङ् । प्रसवः — उत्पादनम् । षोपदेशोऽयम् । विकल्पमिति ।परमपी॑ति शेषः । निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः । दूङ् परितापे इति । पीडने, पीडितीभवने वेत्यर्थः । आद्ये सकर्मकः । द्वितीये अकर्मकः । दीङ् क्षये इति । क्षयो — ह्रस्वो, नाशो वा ।

Padamanjari

Up

index: 7.2.57 sutra: सेऽसिचि कृतचृतच्छृदतृदनृतः


से इत्यकार उच्चारणार्थः, तासिचीति प्रतिषेधात् । तेन स्येऽप्ययं विकल्पो भवति । कृती छेदने मुचादिः, कृती छेदने रुधादिः - द्वयोरपि ग्रहणम् । इदित्वस्य प्रयोजनमुक्तम् । चृती हिंसाग्रन्थनयोः ऊच्छ्ःअदिर्दीप्तिदेवनयोः, तौउतृदिर्हिंसानादरयोः, नृती गात्रविक्षेपे । ईदित्वं पूर्ववत् ॥