7-2-55 जॄव्रश्च्योः क्त्वि आर्धधातुकस्य इट् वलादेः
जृ व्रश्चि इत्येतयोः क्त्वाप्रत्यय इडागमो भवति। जरित्वा, जरीत्वा। व्रश्चित्वा। जृ इत्येतस्य <<श्र्युकः किति>> ७.२.११ इति प्रतिषेधः प्राप्तः, व्रश्चेरूदित्त्वाद् विकल्पः। क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम्॥
आभ्यां परस्य क्त्वा इट् स्यात् । जरीत्वा । जरित्वा । व्रश्चित्वा ॥