7-2-54 लुभः विमोहने आर्धधातुकस्य इट् वलादेः क्त्वानिष्ठयोः
लुभो विमोहनेऽर्थे वर्तमानात् क्त्वानिष्ठयोरिडागमो भवति। लुभित्वा, लोभित्वा। विलुभिताः केशाः। विलुभितः सीमन्तः। विलुभितानि पदानि। विमोहनमाकुलीकरणम्। तत्र क्त्वायां <<तीषसहलुभ०>> ७.२.४८ इति विकल्पः, निष्ठायां <<यस्य विभाषा>>७.२.१५ इति प्रतिषेधः प्राप्तः। विमोहन इति किम्? लुब्धो वृषलः? शीतेन पीडित इत्यर्थः लुब्ध्वा, लुभित्वा, लोभित्वा। गार्ध्ये यथाप्राप्तमेव भवति॥
लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥
<<लुभो विमोचने>> - लुभो विमोहने । 'लुभ' इति पञ्चमी । 'लुभ विमोहने' तुदादिः ।विमोहनं व्याकुलीकरण॑मिति वृत्तिः । 'लुभ गाध्र्ये' दिवादिः । अत्र तौदादिकस्यैव ग्रहणं, तस्यैव विमोहनार्थकत्वात् । नतु दैवादिकस्य, तस्य गाध्र्यार्थकत्वात् । तदाह — न तु गाध्र्ये इति ।तीषसहे॑ति क्त्वायां विकल्पे प्राप्ते, निष्ठायां तुयस्य विभाषे॑ति निषेधे प्राप्ते वचनम् । लुभित इति । विमोहित इत्यर्थः । गाध्र्ये तु लुब्ध इति । अभिकाङ्क्षवानित्यर्थः ।मतिबुद्धिपूजार्थेभ्यश्चे॑ति कर्तरि क्तः ।
लुभित्वा, लोभित्वेति । रलो व्युपधात् इत्यादिना कित्वविकल्पः ॥